< Hebrews 1 >
1 In many parts, and many ways, God of old having spoken to the fathers in the prophets,
पुरा य ईश्वरो भविष्यद्वादिभिः पितृलोकेभ्यो नानासमये नानाप्रकारं कथितवान्
2 in these last days did speak to us in a Son, whom He appointed heir of all things, through whom also He did make the ages; (aiōn )
स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्। (aiōn )
3 who being the brightness of the glory, and the impress of His subsistence, bearing up also the all things by the saying of his might — through himself having made a cleansing of our sins, sat down at the right hand of the greatness in the highest,
स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
4 having become so much better than the messengers, as he did inherit a more excellent name than they.
दिव्यदूतगणाद् यथा स विशिष्टनाम्नो ऽधिकारी जातस्तथा तेभ्योऽपि श्रेष्ठो जातः।
5 For to which of the messengers said He ever, 'My Son thou art — I to-day have begotten thee?' and again, 'I will be to him for a father, and he shall be to Me for a son?'
यतो दूतानां मध्ये कदाचिदीश्वरेणेदं क उक्तः? यथा, "मदीयतनयो ऽसि त्वम् अद्यैव जनितो मया।" पुनश्च "अहं तस्य पिता भविष्यामि स च मम पुत्रो भविष्यति।"
6 and when again He may bring in the first-born to the world, He saith, 'And let them bow before him — all messengers of God;'
अपरं जगति स्वकीयाद्वितीयपुत्रस्य पुनरानयनकाले तेनोक्तं, यथा, "ईश्वरस्य सकलै र्दूतैरेष एव प्रणम्यतां।"
7 and unto the messengers, indeed, He saith, 'Who is making His messengers spirits, and His ministers a flame of fire;'
दूतान् अधि तेनेदम् उक्तं, यथा, "स करोति निजान् दूतान् गन्धवाहस्वरूपकान्। वह्निशिखास्वरूपांश्च करोति निजसेवकान्॥"
8 and unto the Son: 'Thy throne, O God, [is] to the age of the age; a sceptre of righteousness [is] the sceptre of thy reign; (aiōn )
किन्तु पुत्रमुद्दिश्य तेनोक्तं, यथा, "हे ईश्वर सदा स्थायि तव सिंहासनं भवेत्। याथार्थ्यस्य भवेद्दण्डो राजदण्डस्त्वदीयकः। (aiōn )
9 thou didst love righteousness, and didst hate lawlessness; because of this did He anoint thee — God, thy God — with oil of gladness above thy partners;'
पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥"
10 and, 'Thou, at the beginning, Lord, the earth didst found, and a work of thy hands are the heavens;
पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं।
11 these shall perish, and Thou dost remain, and all, as a garment, shall become old,
इमे विनंक्ष्यतस्त्वन्तु नित्यमेवावतिष्ठसे। इदन्तु सकलं विश्वं संजरिष्यति वस्त्रवत्।
12 and as a mantle Thou shall roll them together, and they shall be changed, and Thou art the same, and Thy years shall not fail.'
सङ्कोचितं त्वया तत्तु वस्त्रवत् परिवर्त्स्यते। त्वन्तु नित्यं स एवासी र्निरन्तास्तव वत्सराः॥"
13 And unto which of the messengers said He ever, 'Sit at My right hand, till I may make thine enemies thy footstool?'
अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"
14 are they not all spirits of service — for ministration being sent forth because of those about to inherit salvation?
ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?