< Acts 21 >
1 And whanne it was don, that we schulden seile, and weren passid awei fro hem, with streiyt cours we camen to Choum, and the day suynge to Rodis, and fro thennus to Patiram, and fro thennus to Myram.
तै र्विसृष्टाः सन्तो वयं पोतं बाहयित्वा ऋजुमार्गेण कोषम् उपद्वीपम् आगत्य परेऽहनि रोदियोपद्वीपम् आगच्छाम ततस्तस्मात् पातारायाम् उपातिष्ठाम।
2 And whanne we founden a schip passinge ouer to Fenyce, we wenten vp in to it, and sailden forth.
तत्र फैनीकियादेशगामिनम् पोतमेकं प्राप्य तमारुह्य गतवन्तः।
3 And whanne we apperiden to Cipre, we leften it at the left half, and seiliden in to Sirie, and camen to Tire. For there the schip schulde be vnchargid.
कुप्रोपद्वीपं दृष्ट्वा तं सव्यदिशि स्थापयित्वा सुरियादेशं गत्वा पोतस्थद्रव्याण्यवरोहयितुं सोरनगरे लागितवन्तः।
4 And whanne we foundun disciplis, we dwelliden there seuene daies; whiche seiden bi spirit to Poul, that he schulde not go vp to Jerusalem.
तत्र शिष्यगणस्य साक्षात्करणाय वयं तत्र सप्तदिनानि स्थितवन्तः पश्चात्ते पवित्रेणात्मना पौलं व्याहरन् त्वं यिरूशालम्नगरं मा गमः।
5 And whanne the daies weren fillid, we yeden forth, and alle men with wyues and children ledden forth vs with outen the citee; and we kneliden in the see brenke, and we preieden.
ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।
6 And whanne we hadden maad fare wel togidre, we wenten vp into the schip; and thei turneden ayen in to her owne places.
ततः परस्परं विसृष्टाः सन्तो वयं पोतं गतास्ते तु स्वस्वगृहं प्रत्यागतवन्तः।
7 And whanne the schip sailinge was fillid fro Tire, we camen doun to Tolamayda, and whanne we hadden gret wel the britheren, we dwelliden o dai at hem.
वयं सोरनगरात् नावा प्रस्थाय तलिमायिनगरम् उपातिष्ठाम तत्रास्माकं समुद्रीयमार्गस्यान्तोऽभवत् तत्र भ्रातृगणं नमस्कृत्य दिनमेकं तैः सार्द्धम् उषतवन्तः।
8 And another dai we yeden forth, and camen to Cesarie. And we entriden in to the hous of Filip euangelist, that was oon of the seuene, and dwelliden at hym.
परे ऽहनि पौलस्तस्य सङ्गिनो वयञ्च प्रतिष्ठमानाः कैसरियानगरम् आगत्य सुसंवादप्रचारकानां सप्तजनानां फिलिपनाम्न एकस्य गृहं प्रविश्यावतिष्ठाम।
9 And to hym weren foure douytris, virgyns, that profecieden.
तस्य चतस्रो दुहितरोऽनूढा भविष्यद्वादिन्य आसन्।
10 And whanne we dwelliden there bi summe daies, a profete, Agabus bi name, cam ouer fro Judee.
तत्रास्मासु बहुदिनानि प्रोषितेषु यिहूदीयदेशाद् आगत्यागाबनामा भविष्यद्वादी समुपस्थितवान्।
11 This whanne he cam to vs, took the girdil of Poul, and boond togidere hise feet and hoondis, and seide, The Hooli Goost seith these thingis, Thus Jewis schulen bynde in Jerusalem the man, whos is this girdil; and thei schulen bytake into hethene mennys hoondis.
सोस्माकं समीपमेत्य पौलस्य कटिबन्धनं गृहीत्वा निजहस्तापादान् बद्ध्वा भाषितवान् यस्येदं कटिबन्धनं तं यिहूदीयलोका यिरूशालमनगर इत्थं बद्ध्वा भिन्नदेशीयानां करेषु समर्पयिष्यन्तीति वाक्यं पवित्र आत्मा कथयति।
12 Which thing whanne we herden, we preieden, and thei that weren of that place, that he schulde not go vp to Jerusalem.
एतादृशीं कथां श्रुत्वा वयं तन्नगरवासिनो भ्रातरश्च यिरूशालमं न यातुं पौलं व्यनयामहि;
13 Thanne Poul answeride, and seide, What doen ye, wepinge and turmentinge myn herte? For Y am redi, not oonli to be boundun, but also to die in Jerusalem for the name of the Lord Jhesu.
किन्तु स प्रत्यावादीत्, यूयं किं कुरुथ? किं क्रन्दनेन ममान्तःकरणं विदीर्णं करिष्यथ? प्रभो र्यीशो र्नाम्नो निमित्तं यिरूशालमि बद्धो भवितुं केवल तन्न प्राणान् दातुमपि ससज्जोस्मि।
14 And whanne we myyten not counseile hym, we weren stille, and seiden, The wille of the Lord be don.
तेनास्माकं कथायाम् अगृहीतायाम् ईश्वरस्य यथेच्छा तथैव भवत्वित्युक्त्वा वयं निरस्याम।
15 And aftir these daies we weren maad redi, and wenten vp to Jerusalem.
परेऽहनि पाथेयद्रव्याणि गृहीत्वा यिरूशालमं प्रति यात्राम् अकुर्म्म।
16 And summe of the disciplis camen with vs fro Cesarie, and ledden with hem a man, Jason of Cipre, an elde disciple, at whom we schulden be herborid.
ततः कैसरियानगरनिवासिनः कतिपयाः शिष्या अस्माभिः सार्द्धम् इत्वा कृप्रीयेन म्नासन्नाम्ना येन प्राचीनशिष्येन सार्द्धम् अस्माभि र्वस्तव्यं तस्य समीपम् अस्मान् नीतवन्तः।
17 And whanne we camen to Jerusalem, britheren resseyueden vs wilfulli.
अस्मासु यिरूशालम्युपस्थितेषु तत्रस्थभ्रातृगणोऽस्मान् आह्लादेन गृहीतवान्।
18 And in the dai suynge Poul entride with vs to James, and alle the eldre men weren gaderid.
परस्मिन् दिवसे पौलेऽस्माभिः सह याकूबो गृहं प्रविष्टे लोकप्राचीनाः सर्व्वे तत्र परिषदि संस्थिताः।
19 Whiche whanne he hadde gret, he telde bi alle thingis, what God hadde doon in hethene men, bi the mynysterie of hym.
अनन्तरं स तान् नत्वा स्वीयप्रचारणेन भिन्नदेशीयान् प्रतीश्वरो यानि कर्म्माणि साधितवान् तदीयां कथाम् अनुक्रमात् कथितवान्।
20 And whanne thei herden, thei magnyfiden God, and seiden to hym, Brothir, thou seest how many thousyndis ben in Jewis, that han bileued to God, and alle ben loueris of the lawe.
इति श्रुत्वा ते प्रभुं धन्यं प्रोच्य वाक्यमिदम् अभाषन्त, हे भ्रात र्यिहूदीयानां मध्ये बहुसहस्राणि लोका विश्वासिन आसते किन्तु ते सर्व्वे व्यवस्थामताचारिण एतत् प्रत्यक्षं पश्यसि।
21 And thei herden of thee, that thou techist departing fro Moises of thilk Jewis that ben bi hethene men, that seien, that thei owen not circumcide her sones, nether owen to entre by custom.
शिशूनां त्वक्छेदनाद्याचरणं प्रतिषिध्य त्वं भिन्नदेशनिवासिनो यिहूदीयलोकान् मूसावाक्यम् अश्रद्धातुम् उपदिशसीति तैः श्रुतमस्ति।
22 Therfor what is? It bihoueth that the multitude come togidre; for thei schulen here, that thou art come.
त्वमत्रागतोसीति वार्त्तां समाकर्ण्य जननिवहो मिलित्वावश्यमेवागमिष्यति; अतएव किं करणीयम्? अत्र वयं मन्त्रयित्वा समुपायं त्वां वदामस्तं त्वमाचर।
23 Therfor do thou this thing, that we seien to thee. Ther ben to vs foure men, that han a vow on hem.
व्रतं कर्त्तुं कृतसङ्कल्पा येऽस्मांक चत्वारो मानवाः सन्ति
24 Take thou these men, and halowe thee with hem; honge on hem, that thei schaue her heedis; and that alle men wite, that the thingis that thei herden of thee ben false, but that thou walkist, and thi silf kepist the lawe.
तान् गृहीत्वा तैः सहितः स्वं शुचिं कुरु तथा तेषां शिरोमुण्डने यो व्ययो भवति तं त्वं देहि। तथा कृते त्वदीयाचारे या जनश्रुति र्जायते सालीका किन्तु त्वं विधिं पालयन् व्यवस्थानुसारेणेवाचरसीति ते भोत्सन्ते।
25 But of these that bileueden of hethene men, we writen, demynge that thei absteyne hem fro thing offrid to idols, and fro blood, and also fro stranglid thing, and fro fornicacioun.
भिन्नदेशीयानां विश्वासिलोकानां निकटे वयं पत्रं लिखित्वेत्थं स्थिरीकृतवन्तः, देवप्रसादभोजनं रक्तं गलपीडनमारितप्राणिभोजनं व्यभिचारश्चैतेभ्यः स्वरक्षणव्यतिरेकेण तेषामन्यविधिपालनं करणीयं न।
26 Thanne Poul took the men, and in the dai suynge he was purified with hem, and entride in to the temple, and schewide the filling of daies of purifying, til the offring was offrid for ech of hem.
ततः पौलस्तान् मानुषानादाय परस्मिन् दिवसे तैः सह शुचि र्भूत्वा मन्दिरं गत्वा शौचकर्म्मणो दिनेषु सम्पूर्णेषु तेषाम् एकैकार्थं नैवेद्याद्युत्सर्गो भविष्यतीति ज्ञापितवान्।
27 And whanne seuene daies weren endid, the Jewis that weren of Asie, whanne thei saien him in the temple, stiriden al the puple, and leyden hondis on hym,
तेषु सप्तसु दिनेषु समाप्तकल्पेषु आशियादेशनिवासिनो यिहूदीयास्तं मध्येमन्दिरं विलोक्य जननिवहस्य मनःसु कुप्रवृत्तिं जनयित्वा तं धृत्वा
28 and crieden, Men of Israel, helpe ye vs. This is the man, that ayens the puple and the lawe and this place techith euery where alle men, more ouer and hath led hethene men in to the temple, and hath defoulid this hooli place.
प्रोच्चैः प्रावोचन्, हे इस्रायेल्लोकाः सर्व्वे साहाय्यं कुरुत। यो मनुज एतेषां लोकानां मूसाव्यवस्थाया एतस्य स्थानस्यापि विपरीतं सर्व्वत्र सर्व्वान् शिक्षयति स एषः; विशेषतः स भिन्नदेशीयलोकान् मन्दिरम् आनीय पवित्रस्थानमेतद् अपवित्रमकरोत्।
29 For thei seyen Trofimus of Effesi in the citee with hym, whom thei gessiden that Poul hadde brouyt in to the temple.
पूर्व्वं ते मध्येनगरम् इफिषनगरीयं त्रफिमं पौलेन सहितं दृष्टवन्त एतस्मात् पौलस्तं मन्दिरमध्यम् आनयद् इत्यन्वमिमत।
30 And al the citee was moued, and a rennyng togider of the puple was maad. And thei token Poul, and drowen him out of the temple; and anoon the yatis weren closid.
अतएव सर्व्वस्मिन् नगरे कलहोत्पन्नत्वात् धावन्तो लोका आगत्य पौलं धृत्वा मन्दिरस्य बहिराकृष्यानयन् तत्क्षणाद् द्वाराणि सर्व्वाणि च रुद्धानि।
31 And whanne thei souyten to sle hym, it was teld to the tribune of the cumpany of knyytis, that al Jerusalem is confoundid.
तेषु तं हन्तुमुद्यतेेषु यिरूशालम्नगरे महानुपद्रवो जात इति वार्त्तायां सहस्रसेनापतेः कर्णगोचरीभूतायां सत्यां स तत्क्षणात् सैन्यानि सेनापतिगणञ्च गृहीत्वा जवेनागतवान्।
32 Which anoon took knyytis, and centuriens, and ran to hem. And whanne thei hadden seen the tribune, and the knyytis, thei ceessiden to smyte Poul.
ततो लोकाः सेनागणेन सह सहस्रसेनापतिम् आगच्छन्तं दृष्ट्वा पौलताडनातो न्यवर्त्तन्त।
33 Thanne the tribune cam, and cauyte hym, and comaundide, that he were boundun with twei cheynes; and axide, who he was, and what he hadde don.
स सहस्रसेनापतिः सन्निधावागम्य पौलं धृत्वा शृङ्खलद्वयेन बद्धम् आदिश्य तान् पृष्टवान् एष कः? किं कर्म्म चायं कृतवान्?
34 But othere crieden other thing among the puple. And whanne he miyte `knowe no certeyn thing for the noise, he comaundide hym to be led in to the castels.
ततो जनसमूहस्य कश्चिद् एकप्रकारं कश्चिद् अन्यप्रकारं वाक्यम् अरौत् स तत्र सत्यं ज्ञातुम् कलहकारणाद् अशक्तः सन् तं दुर्गं नेतुम् आज्ञापयत्।
35 And whanne Poul cam to the grees, it bifel that he was borun of kniytis, for strengthe of the puple.
तेषु सोपानस्योपरि प्राप्तेषु लोकानां साहसकारणात् सेनागणः पौलमुत्तोल्य नीतवान्।
36 For the multitude of the puple suede hym, and criede, Take hym awei.
ततः सर्व्वे लोकाः पश्चाद्गामिनः सन्त एनं दुरीकुरुतेति वाक्यम् उच्चैरवदन्।
37 And whanne Poul bigan to be led in to the castels, he seide to the tribune, Whether it is leueful `to me, to speke ony thing to thee?
पौलस्य दुर्गानयनसमये स तस्मै सहस्रसेनापतये कथितवान्, भवतः पुरस्तात् कथां कथयितुं किम् अनुमन्यते? स तमपृच्छत् त्वं किं यूनानीयां भाषां जानासि?
38 And he seide, Kanst thou Greek? Whether thou art not the Egipcian, which bifor these daies mouedist a noise, and leddist out in to desert foure thousynde of men, mensleeris?
यो मिसरीयो जनः पूर्व्वं विरोधं कृत्वा चत्वारि सहस्राणि घातकान् सङ्गिनः कृत्वा विपिनं गतवान् त्वं किं सएव न भवसि?
39 And Poul seide to hym, For Y am a Jew, of Tharse of Cilicie, a citeseyn, which citee is not vnknowun. And Y preye thee, suffre me to speke to the puple.
तदा पौलोऽकथयत् अहं किलिकियादेशस्य तार्षनगरीयो यिहूदीयो, नाहं सामान्यनगरीयो मानवः; अतएव विनयेऽहं लाकानां समक्षं कथां कथयितुं मामनुजानीष्व।
40 And whanne he suffride, Poul stood in the grees, and bikenede with the hoond to the puple. And whanne a greet silence was maad, he spak in Ebrew tunge, and seide,
तेनानुज्ञातः पौलः सोपानोपरि तिष्ठन् हस्तेनेङ्गितं कृतवान्, तस्मात् सर्व्वे सुस्थिरा अभवन्। तदा पौल इब्रीयभाषया कथयितुम् आरभत,