< Hebrews 7 >

1 For this Melchisedec, king of Salem, priest of the most high God, who met Abraham returning from the slaughter of the kings,
शालमस्य राजा सर्व्वोपरिस्थस्येश्वरस्य याजकश्च सन् यो नृपतीनां मारणात् प्रत्यागतम् इब्राहीमं साक्षात्कृत्याशिषं गदितवान्,
2 and blessed him, to whom also Abraham divided the tenth of all his spoils; being in the first place, by interpretation of his name, king of righteousness, and moreover king of Salem, which is king of peace;
यस्मै चेब्राहीम् सर्व्वद्रव्याणां दशमांशं दत्तवान् स मल्कीषेदक् स्वनाम्नोऽर्थेन प्रथमतो धर्म्मराजः पश्चात् शालमस्य राजार्थतः शान्तिराजो भवति।
3 without father, without mother, without genealogy, having neither beginning of days recorded, nor end of life, but resembling the Son of God, remaineth a priest continually.
अपरं तस्य पिता माता वंशस्य निर्णय आयुष आरम्भो जीवनस्य शेषश्चैतेषाम् अभावो भवति, इत्थं स ईश्वरपुत्रस्य सदृशीकृतः, स त्वनन्तकालं यावद् याजकस्तिष्ठति।
4 Now consider how great a man this was, to whom even the patriarch Abraham gave the tenth of the spoils.
अतएवास्माकं पूर्व्वपुरुष इब्राहीम् यस्मै लुठितद्रव्याणां दशमांशं दत्तवान् स कीदृक् महान् तद् आलोचयत।
5 And those indeed of the sons of Levi, who receive the priesthood, have a commandment according to the law to take tithes of the people, that is, of their brethren, though they came out of the loins of Abraham:
याजकत्वप्राप्ता लेवेः सन्ताना व्यवस्थानुसारेण लोकेभ्योऽर्थत इब्राहीमो जातेभ्यः स्वीयभ्रातृभ्यो दशमांशग्रहणस्यादेशं लब्धवन्तः।
6 but he, whose pedigree is not reckoned among them, took tithes of Abraham, and blessed him that had the promises.
किन्त्वसौ यद्यपि तेषां वंशात् नोत्पन्नस्तथापीब्राहीमो दशमांशं गृहीतवान् प्रतिज्ञानाम् अधिकारिणम् आशिषं गदितवांश्च।
7 Now without all contradiction the inferior is blessed by the superior:
अपरं यः श्रेयान् स क्षुद्रतरायाशिषं ददातीत्यत्र कोऽपि सन्देहो नास्ति।
8 besides, here men that die receive tithes; but there he of whom it is testified that he liveth.
अपरम् इदानीं ये दशमांशं गृह्लन्ति ते मृत्योरधीना मानवाः किन्तु तदानीं यो गृहीतवान् स जीवतीतिप्रमाणप्राप्तः।
9 And (as one may say) even Levi, who receiveth tithes, paid tithes in Abraham:
अपरं दशमांशग्राही लेविरपीब्राहीम्द्वारा दशमांशं दत्तवान् एतदपि कथयितुं शक्यते।
10 for he was yet in the loins of his father, when Melchisedec met him.
यतो यदा मल्कीषेदक् तस्य पितरं साक्षात् कृतवान् तदानीं स लेविः पितुरुरस्यासीत्।
11 Now if perfection were by the Levitical priesthood, (for under it the people received the law) what farther need was there that another priest should arise after the order of Melchisedec, and not after the order of Aaron?
अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्?
12 For the priesthood being changed, there is of necessity a change also of the law.
यतो याजकवर्गस्य विनिमयेन सुतरां व्यवस्थाया अपि विनिमयो जायते।
13 Now He, of whom these things are said, is of another tribe, of which none ever attended at the altar.
अपरञ्च तद् वाक्यं यस्योद्देश्यं सोऽपरेण वंशेन संयुक्ताऽस्ति तस्य वंशस्य च कोऽपि कदापि वेद्याः कर्म्म न कृतवान्।
14 For it is evident that our Lord sprang from Judah, as to which tribe Moses spake nothing about the priesthood.
वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं।
15 And it is yet more abundantly evident, that after the similitude of Melchisedec there ariseth another priest,
तस्य स्पष्टतरम् अपरं प्रमाणमिदं यत् मल्कीषेदकः सादृश्यवतापरेण तादृशेन याजकेनोदेतव्यं,
16 who is made not according to the law of a temporary command, but according to the power of an endless life.
यस्य निरूपणं शरीरसम्बन्धीयविधियुक्तया व्यवस्थाया न भवति किन्त्वक्षयजीवनयुक्तया शक्त्या भवति।
17 For He testifieth, Thou art a priest for ever after the order of Melchisedec. (aiōn g165)
यत ईश्वर इदं साक्ष्यं दत्तवान्, यथा, "त्वं मक्लीषेदकः श्रेण्यां याजकोऽसि सदातनः।" (aiōn g165)
18 For there is indeed a disannulling of the preceding command, on account of it's weakness and unprofitableness;
अनेनाग्रवर्त्तिनो विधे दुर्ब्बलताया निष्फलतायाश्च हेतोरर्थतो व्यवस्थया किमपि सिद्धं न जातमितिहेतोस्तस्य लोपो भवति।
19 for the law made nothing perfect, but the introducing of a better hope did, by which we draw near to God.
यया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते।
20 Moreover inasmuch as He was not made priest without an oath,
अपरं यीशुः शपथं विना न नियुक्तस्तस्मादपि स श्रेष्ठनियमस्य मध्यस्थो जातः।
21 (for they indeed are become priests without the solemnity of an oath; but He with an oath, by Him who said unto Him, "The Lord hath sworn, and will not repent, Thou art a priest for ever after the order of Melchisedec:") (aiōn g165)
यतस्ते शपथं विना याजका जाताः किन्त्वसौ शपथेन जातः यतः स इदमुक्तः, यथा,
22 by so much is Jesus become the surety of a better covenant.
"परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।" (aiōn g165)
23 And they were many priests, because they were by death hindered from continuing in their office;
ते च बहवो याजका अभवन् यतस्ते मृत्युना नित्यस्थायित्वात् निवारिताः,
24 but He, because He abideth for ever, hath a priesthood that passeth not to any other: (aiōn g165)
किन्त्वसावनन्तकालं यावत् तिष्ठति तस्मात् तस्य याजकत्वं न परिवर्त्तनीयं। (aiōn g165)
25 wherefore also He is able to save to the uttermost, those that come unto God by Him, seeing He ever liveth to make intercession for them.
ततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति।
26 For such an high-priest was meet for us, who was holy, harmless, undefiled, separate from sinners, and higher than the heavens;
अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।
27 who hath no need, as the Levitical high-priests had, daily to offer sacrifices first for his own sins, and then for those of the people: for this He did once for all, in offering up Himself.
अपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं।
28 For the law appointeth men high-priests, who have infirmity; but the oath, recorded since the law, appointeth the Son to be priest for ever, being fully perfected for it. (aiōn g165)
यतो व्यवस्थया ये महायाजका निरूप्यन्ते ते दौर्ब्बल्ययुक्ता मानवाः किन्तु व्यवस्थातः परं शपथयुक्तेन वाक्येन यो महायाजको निरूपितः सो ऽनन्तकालार्थं सिद्धः पुत्र एव। (aiōn g165)

< Hebrews 7 >