< 1 Thessalonians 3 >
1 Therefore when we couldn’t stand it any longer, we thought it good to be left behind at Athens alone,
अतोऽहं यदा सन्देहं पुनः सोढुं नाशक्नुवं तदानीम् आथीनीनगर एकाकी स्थातुं निश्चित्य
2 and sent Timothy, our brother and God’s servant in the Good News of Christ, to establish you and to comfort you concerning your faith,
स्वभ्रातरं ख्रीष्टस्य सुसंवादे सहकारिणञ्चेश्वरस्य परिचारकं तीमथियं युष्मत्समीपम् अप्रेषयं।
3 that no one would be moved by these afflictions. For you know that we are appointed to this task.
वर्त्तमानैः क्लेशैः कस्यापि चाञ्चल्यं यथा न जायते तथा ते त्वया स्थिरीक्रियन्तां स्वकीयधर्म्ममधि समाश्वास्यन्ताञ्चेति तम् आदिशं।
4 For most certainly, when we were with you, we told you beforehand that we are to suffer affliction, even as it happened, and you know.
वयमेतादृशे क्लेेशे नियुक्ता आस्मह इति यूयं स्वयं जानीथ, यतोऽस्माकं दुर्गति र्भविष्यतीति वयं युष्माकं समीपे स्थितिकालेऽपि युष्मान् अबोधयाम, तादृशमेव चाभवत् तदपि जानीथ।
5 For this cause I also, when I couldn’t stand it any longer, sent that I might know your faith, for fear that by any means the tempter had tempted you, and our labor would have been in vain.
तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोढुं यदाहं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावधारणाय तम् अप्रेषयं।
6 But Timothy has just now come to us from you, and brought us glad news of your faith and love, and that you have good memories of us always, longing to see us, even as we also long to see you.
किन्त्वधुना तीमथियो युष्मत्समीपाद् अस्मत्सन्निधिम् आगत्य युष्माकं विश्वासप्रेमणी अध्यस्मान् सुवार्त्तां ज्ञापितवान् वयञ्च यथा युष्मान् स्मरामस्तथा यूयमप्यस्मान् सर्व्वदा प्रणयेन स्मरथ द्रष्टुम् आकाङ्क्षध्वे चेति कथितवान्।
7 For this cause, brothers, we were comforted over you in all our distress and affliction through your faith.
हे भ्रातरः, वार्त्तामिमां प्राप्य युष्मानधि विशेषतो युष्माकं क्लेशदुःखान्यधि युष्माकं विश्वासाद् अस्माकं सान्त्वनाजायत;
8 For now we live, if you stand fast in the Lord.
यतो यूयं यदि प्रभाववतिष्ठथ तर्ह्यनेन वयम् अधुना जीवामः।
9 For what thanksgiving can we render again to God for you, for all the joy with which we rejoice for your sakes before our God,
वयञ्चास्मदीयेश्वरस्य साक्षाद् युष्मत्तो जातेन येनानन्देन प्रफुल्ला भवामस्तस्य कृत्स्नस्यानन्दस्य योग्यरूपेणेश्वरं धन्यं वदितुं कथं शक्ष्यामः?
10 night and day praying exceedingly that we may see your face and may perfect that which is lacking in your faith?
वयं येन युष्माकं वदनानि द्रष्टुं युष्माकं विश्वासे यद् असिद्धं विद्यते तत् सिद्धीकर्त्तुञ्च शक्ष्यामस्तादृशं वरं दिवानिशं प्रार्थयामहे।
11 Now may our God and Father himself, and our Lord Jesus Christ, direct our way to you.
अस्माकं तातेनेश्वरेण प्रभुना यीशुख्रीष्टेन च युष्मत्समीपगमनायास्माकं पन्था सुगमः क्रियतां।
12 May the Lord make you to increase and abound in love toward one another and toward all men, even as we also do toward you,
परस्परं सर्व्वांश्च प्रति युष्माकं प्रेम युष्मान् प्रति चास्माकं प्रेम प्रभुना वर्द्ध्यतां बहुफलं क्रियताञ्च।
13 to the end he may establish your hearts blameless in holiness before our God and Father at the coming of our Lord Jesus with all his saints.
अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।