< Philemon 1 >
1 Paul, a prisoner of Christ Jesus, and Timothy our brother, to Philemon, our beloved fellow worker,
ख्रीष्टस्य यीशो र्बन्दिदासः पौलस्तीथियनामा भ्राता च प्रियं सहकारिणं फिलीमोनं
2 to the beloved Apphia, to Archippus our fellow soldier, and to the assembly in your house:
प्रियाम् आप्पियां सहसेनाम् आर्खिप्पं फिलीमोनस्य गृहे स्थितां समितिञ्च प्रति पत्रं लिखतः।
3 Grace to you and peace from God our Father and the Lord Jesus Christ.
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति शान्तिम् अनुग्रहञ्च क्रियास्तां।
4 I thank my God always, making mention of you in my prayers,
प्रभुं यीशुं प्रति सर्व्वान् पवित्रलोकान् प्रति च तव प्रेमविश्वासयो र्वृत्तान्तं निशम्याहं
5 hearing of your love and of the faith which you have towards the Lord Jesus and towards all the saints,
प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि।
6 that the fellowship of your faith may become effective in the knowledge of every good thing which is in us in Christ Jesus.
अस्मासु यद्यत् सौजन्यं विद्यते तत् सर्व्वं ख्रीष्टं यीशुं यत् प्रति भवतीति ज्ञानाय तव विश्वासमूलिका दानशीलता यत् सफला भवेत् तदहम् इच्छामि।
7 For we have much joy and comfort in your love, because the hearts of the saints have been refreshed through you, brother.
हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।
8 Therefore though I have all boldness in Christ to command you that which is appropriate,
त्वया यत् कर्त्तव्यं तत् त्वाम् आज्ञापयितुं यद्यप्यहं ख्रीष्टेनातीवोत्सुको भवेयं तथापि वृद्ध
9 yet for love’s sake I rather appeal to you, being such a one as Paul, the aged, but also a prisoner of Jesus Christ.
इदानीं यीशुख्रीष्टस्य बन्दिदासश्चैवम्भूतो यः पौलः सोऽहं त्वां विनेतुं वरं मन्ये।
10 I appeal to you for my child Onesimus, whom I have become the father of in my chains,
अतः शृङ्खलबद्धोऽहं यमजनयं तं मदीयतनयम् ओनीषिमम् अधि त्वां विनये।
11 who once was useless to you, but now is useful to you and to me.
स पूर्व्वं तवानुपकारक आसीत् किन्त्विदानीं तव मम चोपकारी भवति।
12 I am sending him back. Therefore receive him, that is, my own heart,
तमेवाहं तव समीपं प्रेषयामि, अतो मदीयप्राणस्वरूपः स त्वयानुगृह्यतां।
13 whom I desired to keep with me, that on your behalf he might serve me in my chains for the Good News.
सुसंवादस्य कृते शृङ्खलबद्धोऽहं परिचारकमिव तं स्वसन्निधौ वर्त्तयितुम् ऐच्छं।
14 But I was willing to do nothing without your consent, that your goodness would not be as of necessity, but of free will.
किन्तु तव सौजन्यं यद् बलेन न भूत्वा स्वेच्छायाः फलं भवेत् तदर्थं तव सम्मतिं विना किमपि कर्त्तव्यं नामन्ये।
15 For perhaps he was therefore separated from you for a while that you would have him forever, (aiōnios )
को जानाति क्षणकालार्थं त्वत्तस्तस्य विच्छेदोऽभवद् एतस्यायम् अभिप्रायो यत् त्वम् अनन्तकालार्थं तं लप्स्यसे (aiōnios )
16 no longer as a slave, but more than a slave, a beloved brother—especially to me, but how much rather to you, both in the flesh and in the Lord.
पुन र्दासमिव लप्स्यसे तन्नहि किन्तु दासात् श्रेष्ठं मम प्रियं तव च शारीरिकसम्बन्धात् प्रभुसम्बन्धाच्च ततोऽधिकं प्रियं भ्रातरमिव।
17 If then you count me a partner, receive him as you would receive me.
अतो हेतो र्यदि मां सहभागिनं जानासि तर्हि मामिव तमनुगृहाण।
18 But if he has wronged you at all or owes you anything, put that to my account.
तेन यदि तव किमप्यपराद्धं तुभ्यं किमपि धार्य्यते वा तर्हि तत् ममेति विदित्वा गणय।
19 I, Paul, write this with my own hand: I will repay it (not to mention to you that you owe to me even your own self besides).
अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।
20 Yes, brother, let me have joy from you in the Lord. Refresh my heart in the Lord.
भो भ्रातः, प्रभोः कृते मम वाञ्छां पूरय ख्रीष्टस्य कृते मम प्राणान् आप्यायय।
21 Having confidence in your obedience, I write to you, knowing that you will do even beyond what I say.
तवाज्ञाग्राहित्वे विश्वस्य मया एतत् लिख्यते मया यदुच्यते ततोऽधिकं त्वया कारिष्यत इति जानामि।
22 Also, prepare a guest room for me, for I hope that through your prayers I will be restored to you.
तत्करणसमये मदर्थमपि वासगृहं त्वया सज्जीक्रियतां यतो युष्माकं प्रार्थनानां फलरूपो वर इवाहं युष्मभ्यं दायिष्ये ममेति प्रत्याशा जायते।
23 Epaphras, my fellow prisoner in Christ Jesus, greets you,
ख्रीष्टस्य यीशाः कृते मया सह बन्दिरिपाफ्रा
24 as do Mark, Aristarchus, Demas, and Luke, my fellow workers.
मम सहकारिणो मार्क आरिष्टार्खो दीमा लूकश्च त्वां नमस्कारं वेदयन्ति।
25 The grace of our Lord Jesus Christ be with your spirit. Amen.
अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहो युष्माकम् आत्मना सह भूयात्। आमेन्।