< 1 Corinthians 11 >

1 Be ye followers of me, even as I also am of Christ.
हे भ्रातरः, यूयं सर्व्वस्मिन् कार्य्ये मां स्मरथ मया च यादृगुपदिष्टास्तादृगाचरथैतत्कारणात् मया प्रशंसनीया आध्बे।
2 Now I praise you, brethren, that ye remember me in all things, and keep the ordinances, as I delivered them to you.
तथापि ममैषा वाञ्छा यद् यूयमिदम् अवगता भवथ,
3 But I would have you know, that the head of every man is Christ; and the head of the woman is the man; and the head of Christ is God.
एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः।
4 Every man praying or prophesying, having his head covered, dishonoureth his head.
अपरम् आच्छादितोत्तमाङ्गेन येन पुंसा प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तेन स्वीयोत्तमाङ्गम् अवज्ञायते।
5 But every woman that prayeth or prophesieth with her head uncovered dishonoureth her head: for that is even all one as if she were shaved.
अनाच्छादितोत्तमाङ्गया यया योषिता च प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तयापि स्वीयोत्तमाङ्गम् अवज्ञायते यतः सा मुण्डितशिरःसदृशा।
6 For if the woman is not covered, let her also be shorn: but if it is a shame for a woman to be shorn or shaved, let her be covered.
अनाच्छादितमस्तका या योषित् तस्याः शिरः मुण्डनीयमेव किन्तु योषितः केशच्छेदनं शिरोमुण्डनं वा यदि लज्जाजनकं भवेत् तर्हि तया स्वशिर आच्छाद्यतां।
7 For a man indeed ought not to cover his head, forasmuch as he is the image and glory of God: but the woman is the glory of the man.
पुमान् ईश्वरस्य प्रतिमूर्त्तिः प्रतितेजःस्वरूपश्च तस्मात् तेन शिरो नाच्छादनीयं किन्तु सीमन्तिनी पुंसः प्रतिबिम्बस्वरूपा।
8 For the man is not from the woman; but the woman from the man.
यतो योषातः पुमान् नोदपादि किन्तु पुंसो योषिद् उदपादि।
9 Neither was the man created for the woman; but the woman for the man.
अधिकन्तु योषितः कृते पुंसः सृष्टि र्न बभूव किन्तु पुंसः कृते योषितः सृष्टि र्बभूव।
10 For this cause ought the woman to have authority on her head because of the angels.
इति हेतो र्दूतानाम् आदराद् योषिता शिरस्यधीनतासूचकम् आवरणं धर्त्तव्यं।
11 Nevertheless neither is the man without the woman, neither the woman without the man, in the Lord.
तथापि प्रभो र्विधिना पुमांसं विना योषिन्न जायते योषितञ्च विना पुमान् न जायते।
12 For as the woman is from the man, even so is the man also by the woman; but all things from God.
यतो यथा पुंसो योषिद् उदपादि तथा योषितः पुमान् जायते, सर्व्ववस्तूनि चेश्वराद् उत्पद्यन्ते।
13 Judge in yourselves: is it seemly that a woman should pray to God uncovered?
युष्माभिरेवैतद् विविच्यतां, अनावृतया योषिता प्रार्थनं किं सुदृश्यं भवेत्?
14 Doth not even nature itself teach you, that, if a man hath long hair, it is a shame to him?
पुरुषस्य दीर्घकेशत्वं तस्य लज्जाजनकं, किन्तु योषितो दीर्घकेशत्वं तस्या गौरवजनकं
15 But if a woman hath long hair, it is a glory to her: for her hair is given her for a covering.
यत आच्छादनाय तस्यै केशा दत्ता इति किं युष्माभिः स्वभावतो न शिक्ष्यते?
16 But if any man seemeth to be contentious, we have no such custom, neither the churches of God.
अत्र यदि कश्चिद् विवदितुम् इच्छेत् तर्ह्यस्माकम् ईश्वरीयसमितीनाञ्च तादृशी रीति र्न विद्यते।
17 Now in this that I declare to you I praise you not, that ye come together not for the better, but for the worse.
युष्माभि र्न भद्राय किन्तु कुत्सिताय समागम्यते तस्माद् एतानि भाषमाणेन मया यूयं न प्रशंसनीयाः।
18 For first of all, when ye come together in the church, I hear that there are divisions among you; and I partly believe it.
प्रथमतः समितौ समागतानां युष्माकं मध्ये भेदाः सन्तीति वार्त्ता मया श्रूयते तन्मध्ये किञ्चित् सत्यं मन्यते च।
19 For there must be also heresies among you, that they who are approved may be become evident among you.
यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।
20 When therefore ye come together in one place, this is not to eat the Lord’s supper.
एकत्र समागतै र्युष्माभिः प्रभावं भेाज्यं भुज्यत इति नहि;
21 For in eating every one taketh before another his own supper: and one is hungry, and another is drunk.
यतो भोजनकाले युष्माकमेकैकेन स्वकीयं भक्ष्यं तूर्णं ग्रस्यते तस्माद् एको जनो बुभुक्षितस्तिष्ठति, अन्यश्च परितृप्तो भवति।
22 What? have ye not houses to eat and to drink in? or despise ye the church of God, and shame them that have not? What shall I say to you? shall I praise you in this? I praise you not.
भोजनपानार्थं युष्माकं किं वेश्मानि न सन्ति? युष्माभि र्वा किम् ईश्वरस्य समितिं तुच्छीकृत्य दीना लोका अवज्ञायन्ते? इत्यनेन मया किं वक्तव्यं? यूयं किं मया प्रशंसनीयाः? एतस्मिन् यूयं न प्रशंसनीयाः।
23 For I have received from the Lord that which also I delivered to you, That the Lord Jesus the same night in which he was betrayed took bread:
प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः।
24 And when he had given thanks, he broke it, and said, Take, eat: this is my body, which is broken for you: this do in remembrance of me.
परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भङ्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यताञ्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां।
25 After the same manner also he took the cup, when he had supped, saying, This cup is the new testament in my blood: this do ye, as often as ye drink it, in remembrance of me.
पुनश्च भेजनात् परं तथैव कंसम् आदाय तेनोक्तं कंसोऽयं मम शोणितेन स्थापितो नूतननियमः; यतिवारं युष्माभिरेतत् पीयते ततिवारं मम स्मरणार्थं पीयतां।
26 For as often as ye eat this bread, and drink this cup, ye do show the Lord’s death till he shall come.
यतिवारं युष्माभिरेष पूपो भुज्यते भाजनेनानेन पीयते च ततिवारं प्रभोरागमनं यावत् तस्य मृत्युः प्रकाश्यते।
27 Therefore whoever shall eat this bread, and drink this cup of the Lord, unworthily, shall be guilty of the body and blood of the Lord.
अपरञ्च यः कश्चिद् अयोग्यत्वेन प्रभोरिमं पूपम् अश्नाति तस्यानेन भाजनेन पिवति च स प्रभोः कायरुधिरयो र्दण्डदायी भविष्यति।
28 But let a man examine himself, and so let him eat of that bread, and drink of that cup.
तस्मात् मानवेनाग्र आत्मान परीक्ष्य पश्चाद् एष पूपो भुज्यतां कंसेनानेन च पीयतां।
29 For he that eateth and drinketh unworthily, eateth and drinketh judgment to himself, not discerning the Lord’s body.
येन चानर्हत्वेन भुज्यते पीयते च प्रभोः कायम् अविमृशता तेन दण्डप्राप्तये भुज्यते पीयते च।
30 For this cause many are weak and sickly among you, and many sleep.
एतत्कारणाद् युष्माकं भूरिशो लोका दुर्ब्बला रोगिणश्च सन्ति बहवश्च महानिद्रां गताः।
31 For if we would judge ourselves, we should not be judged.
अस्माभि र्यद्यात्मविचारोऽकारिष्यत तर्हि दण्डो नालप्स्यत;
32 But when we are judged, we are chastened by the Lord, that we should not be condemned with the world.
किन्तु यदास्माकं विचारो भवति तदा वयं जगतो जनैः समं यद् दण्डं न लभामहे तदर्थं प्रभुना शास्तिं भुंज्महे।
33 Therefore, my brethren, when ye come together to eat, tarry one for another.
हे मम भ्रातरः, भोजनार्थं मिलितानां युष्माकम् एकेनेतरोऽनुगृह्यतां।
34 And if any man is hungry, let him eat at home; that ye come not together to judgment. And the rest will I set in order when I come.
यश्च बुभुक्षितः स स्वगृहे भुङ्क्तां। दण्डप्राप्तये युष्माभि र्न समागम्यतां। एतद्भिन्नं यद् आदेष्टव्यं तद् युष्मत्समीपागमनकाले मयादेक्ष्यते।

< 1 Corinthians 11 >