< John 18 >

1 When Jesus had said this, he went out with his disciples and crossed the brook Kedron to a place where there was a garden, into which he and his disciples went.
ताः कथाः कथयित्वा यीशुः शिष्यानादाय किद्रोन्नामकं स्रोत उत्तीर्य्य शिष्यैः सह तत्रत्योद्यानं प्राविशत्।
2 The place was well known to Judas, the betrayer, for Jesus and his disciples had often met there.
किन्तु विश्वासघातियिहूदास्तत् स्थानं परिचीयते यतो यीशुः शिष्यैः सार्द्धं कदाचित् तत् स्थानम् अगच्छत्।
3 So Judas, who had obtained the soldiers of the Roman garrison, and some police-officers from the Chief Priests and the Pharisees, came there with lanterns, torches, and weapons.
तदा स यिहूदाः सैन्यगणं प्रधानयाजकानां फिरूशिनाञ्च पदातिगणञ्च गृहीत्वा प्रदीपान् उल्कान् अस्त्राणि चादाय तस्मिन् स्थान उपस्थितवान्।
4 Jesus, aware of all that was coming upon him, went to meet them, and said to them: “For whom are you looking?”
स्वं प्रति यद् घटिष्यते तज् ज्ञात्वा यीशुरग्रेसरः सन् तानपृच्छत् कं गवेषयथ?
5 “Jesus of Nazareth,” was their answer. “I am he,” said Jesus. (Judas, the betrayer, was also standing with them.)
ते प्रत्यवदन्, नासरतीयं यीशुं; ततो यीशुरवादीद् अहमेव सः; तैः सह विश्वासघाती यिहूदाश्चातिष्ठत्।
6 When Jesus said ‘I am he,’ they drew back and fell to the ground.
तदाहमेव स तस्यैतां कथां श्रुत्वैव ते पश्चादेत्य भूमौ पतिताः।
7 So he again asked for whom they were looking, and they answered: “Jesus of Nazareth.”
ततो यीशुः पुनरपि पृष्ठवान् कं गवेषयथ? ततस्ते प्रत्यवदन् नासरतीयं यीशुं।
8 “I have already told you that I am he,” replied Jesus, “so, if it is for me that you are looking, let these men go.”
तदा यीशुः प्रत्युदितवान् अहमेव स इमां कथामचकथम्; यदि मामन्विच्छथ तर्हीमान् गन्तुं मा वारयत।
9 This was in fulfilment of his words — ‘Of those whom thou hast given me I have not lost one.’
इत्थं भूते मह्यं याल्लोकान् अददास्तेषाम् एकमपि नाहारयम् इमां यां कथां स स्वयमकथयत् सा कथा सफला जाता।
10 At this, Simon Peter, who had a sword with him, drew it, and struck the High Priest’s servant, and cut off his right ear. The servant’s name was Malchus.
तदा शिमोन्पितरस्य निकटे खङ्गल्स्थितेः स तं निष्कोषं कृत्वा महायाजकस्य माल्खनामानं दासम् आहत्य तस्य दक्षिणकर्णं छिन्नवान्।
11 But Jesus said to Peter: “Sheathe your sword. Shall I not drink the cup which the Father has given me?”
ततो यीशुः पितरम् अवदत्, खङ्गं कोषे स्थापय मम पिता मह्यं पातुं यं कंसम् अददात् तेनाहं किं न पास्यामि?
12 So the soldiers of the garrison, with their Commanding Officer and the Jewish police, arrested Jesus and bound him,
तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्।
13 and took him first of all to Annas. Annas was the father-in-law of Caiaphas, who was High Priest that year.
स कियफास्तस्मिन् वत्सरे महायाजत्वपदे नियुक्तः
14 It was Caiaphas who had counselled the Jews, that it was best that one man should die for the people.
सन् साधारणलोकानां मङ्गलार्थम् एकजनस्य मरणमुचितम् इति यिहूदीयैः सार्द्धम् अमन्त्रयत्।
15 Meanwhile Simon Peter followed Jesus, and so did another disciple. That disciple, being well-known to the High Priest, went with Jesus into the High Priest’s court-yard,
तदा शिमोन्पितरोऽन्यैकशिष्यश्च यीशोः पश्चाद् अगच्छतां तस्यान्यशिष्यस्य महायाजकेन परिचितत्वात् स यीशुना सह महायाजकस्याट्टालिकां प्राविशत्।
16 while Peter stood outside by the door. Presently the other disciple — the one well-known to the High Priest — went out and spoke to the portress, and brought Peter in.
किन्तु पितरो बहिर्द्वारस्य समीपेऽतिष्ठद् अतएव महायाजकेन परिचितः स शिष्यः पुनर्बहिर्गत्वा दौवायिकायै कथयित्वा पितरम् अभ्यन्तरम् आनयत्।
17 So the maidservant said to Peter: “Are not you also one of this man’s disciples?” “No, I am not,” he said.
तदा स द्वाररक्षिका पितरम् अवदत् त्वं किं न तस्य मानवस्य शिष्यः? ततः सोवदद् अहं न भवामि।
18 The servants and police-officers were standing round a charcoal fire (which they had made because it was cold), and were warming themselves. Peter, too, was with them, standing and warming himself.
ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत।
19 The High Priest questioned Jesus about his disciples and about his teaching.
तदा शिष्येषूपदेशे च महायाजकेन यीशुः पृष्टः
20 “For my part,” answered Jesus, “I have spoken to all the world openly. I always taught in some Synagogue, or in the Temple Courts, places where all the Jews assemble, and I never spoke of anything in secret.
सन् प्रत्युक्तवान् सर्व्वलोकानां समक्षं कथामकथयं गुप्तं कामपि कथां न कथयित्वा यत् स्थानं यिहूदीयाः सततं गच्छन्ति तत्र भजनगेहे मन्दिरे चाशिक्षयं।
21 Why question me? Question those who have listened to me as to what I have spoken about to them. They must know what I said.”
मत्तः कुतः पृच्छसि? ये जना मदुपदेशम् अशृण्वन् तानेव पृच्छ यद्यद् अवदं ते तत् जानिन्त।
22 When Jesus said this, one of the police-officers, who was standing near, gave him a blow with his hand. “Do you answer the High Priest like that?” he exclaimed.
तदेत्थं प्रत्युदितत्वात् निकटस्थपदाति र्यीशुं चपेटेनाहत्य व्याहरत् महायाजकम् एवं प्रतिवदसि?
23 “If I said anything wrong, give evidence about it,” replied Jesus; “but if not, why do you strike me?”
ततो यीशुः प्रतिगदितवान् यद्ययथार्थम् अचकथं तर्हि तस्यायथार्थस्य प्रमाणं देहि, किन्तु यदि यथार्थं तर्हि कुतो हेतो र्माम् अताडयः?
24 Annas sent him bound to Caiaphas the High Priest.
पूर्व्वं हानन् सबन्धनं तं कियफामहायाजकस्य समीपं प्रैषयत्।
25 Meanwhile Simon Peter was standing there, warming himself; so they said to him: “Are not you also one of his disciples?” Peter denied it. “No, I am not,” he said.
शिमोन्पितरस्तिष्ठन् वह्नितापं सेवते, एतस्मिन् समये कियन्तस्तम् अपृच्छन् त्वं किम् एतस्य जनस्य शिष्यो न? ततः सोपह्नुत्याब्रवीद् अहं न भवामि।
26 One of the High Priest’s servants, a relation of the man whose ear Peter had cut off, exclaimed: “Did not I myself see you with him in the garden?”
तदा महायाजकस्य यस्य दासस्य पितरः कर्णमच्छिनत् तस्य कुटुम्बः प्रत्युदितवान् उद्याने तेन सह तिष्ठन्तं त्वां किं नापश्यं?
27 Peter again denied it; and at that moment a cock crowed.
किन्तु पितरः पुनरपह्नुत्य कथितवान्; तदानीं कुक्कुटोऽरौत्।
28 From Caiaphas they took Jesus to the Government House. It was early in the morning. But they did not enter the Government House themselves, lest they should become ‘defiled,’ and so be unable to eat the Passover.
तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।
29 Therefore Pilate came outside to speak to them. “What charge do you bring against this man?” he asked.
अपरं पीलातो बहिरागत्य तान् पृष्ठवान् एतस्य मनुष्यस्य कं दोषं वदथ?
30 “If he had not been a criminal, we should not have given him up to you,” they answered.
तदा ते पेत्यवदन् दुष्कर्म्मकारिणि न सति भवतः समीपे नैनं समार्पयिष्यामः।
31 “Take him yourselves,” said Pilate, “and try him by your own Law.” “We have no power to put any one to death,” the Jews replied —
ततः पीलातोऽवदद् यूयमेनं गृहीत्वा स्वेषां व्यवस्थया विचारयत। तदा यिहूदीयाः प्रत्यवदन् कस्यापि मनुष्यस्य प्राणदण्डं कर्त्तुं नास्माकम् अधिकारोऽस्ति।
32 In fulfilment of what Jesus had said when indicating the death that he was destined to die.
एवं सति यीशुः स्वस्य मृत्यौ यां कथां कथितवान् सा सफलाभवत्।
33 After that, Pilate went into the Government House again, and calling Jesus up, asked him: “Are you the King of the Jews?”
तदनन्तरं पीलातः पुनरपि तद् राजगृहं गत्वा यीशुमाहूय पृष्टवान् त्वं किं यिहूदीयानां राजा?
34 “Do you ask me that yourself?” replied Jesus, “or did others say it to you about me?”
यीशुः प्रत्यवदत् त्वम् एतां कथां स्वतः कथयसि किमन्यः कश्चिन् मयि कथितवान्?
35 “Do you take me for a Jew?” was Pilate’s answer. “It is your own nation and the Chief Priests who have given you up to me. What have you done?”
पीलातोऽवदद् अहं किं यिहूदीयः? तव स्वदेशीया विशेषतः प्रधानयाजका मम निकटे त्वां समार्पयन, त्वं किं कृतवान्?
36 “My kingly power,” replied Jesus, “is not due to this world. If it had been so, my servants would be doing their utmost to prevent my being given up to the Jews; but my kingly power is not from the world.”
यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।
37 “So you are a King after all!” exclaimed Pilate. “Yes, it is true I am a King,” answered Jesus. “I was born for this, I have come into the world for this — to bear testimony to the Truth. Every one who is on the side of Truth listens to my voice.”
तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति।
38 “What is Truth?” exclaimed Pilate. After saying this, he went out to the Jews again, and said: “For my part, I find nothing with which he can be charged.
तदा सत्यं किं? एतां कथां पष्ट्वा पीलातः पुनरपि बहिर्गत्वा यिहूदीयान् अभाषत, अहं तस्य कमप्यपराधं न प्राप्नोमि।
39 It is, however, the custom for me to grant you the release of one man at the Passover Festival. Do you wish for the release of the King of the Jews?”
निस्तारोत्सवसमये युष्माभिरभिरुचित एको जनो मया मोचयितव्य एषा युष्माकं रीतिरस्ति, अतएव युष्माकं निकटे यिहूदीयानां राजानं किं मोचयामि, युष्माकम् इच्छा का?
40 “No, not this man,” they shouted again, “but Barabbas!” This Barabbas was a robber.
तदा ते सर्व्वे रुवन्तो व्याहरन् एनं मानुषं नहि बरब्बां मोचय। किन्तु स बरब्बा दस्युरासीत्।

< John 18 >