< Mark 2 >

1 A few days later Jesus went to Capernaum again, and the people heard that he was at home.
तदनन्तरं यीशै कतिपयदिनानि विलम्ब्य पुनः कफर्नाहूम्नगरं प्रविष्टे स गृह आस्त इति किंवदन्त्या तत्क्षणं तत्समीपं बहवो लोका आगत्य समुपतस्थुः,
2 Immediately many were gathered together, so that there was no longer any room, not even at the door, and he was speaking the word to them.
तस्माद् गृहमध्ये सर्व्वेषां कृते स्थानं नाभवद् द्वारस्य चतुर्दिक्ष्वपि नाभवत्, तत्काले स तान् प्रति कथां प्रचारयाञ्चक्रे।
3 Then some people came to him, bringing a paralytic carried by four men.
ततः परं लोकाश्चतुर्भि र्मानवैरेकं पक्षाघातिनं वाहयित्वा तत्समीपम् आनिन्युः।
4 Since they were not able to come near Jesus because of the crowd, they uncovered the roof where he was. After digging through it, they let down the mat on which the paralytic was lying.
किन्तु जनानां बहुत्वात् तं यीशोः सम्मुखमानेतुं न शक्नुवन्तो यस्मिन् स्थाने स आस्ते तदुपरिगृहपृष्ठं खनित्वा छिद्रं कृत्वा तेन मार्गेण सशय्यं पक्षाघातिनम् अवरोहयामासुः।
5 When Jesus saw their faith, he said to the paralytic, “Son, yoʋr sins are forgiven yoʋ.”
ततो यीशुस्तेषां विश्वासं दृष्ट्वा तं पक्षाघातिनं बभाषे हे वत्स तव पापानां मार्जनं भवतु।
6 Now some of the scribes were sitting there and questioning in their hearts:
तदा कियन्तोऽध्यापकास्तत्रोपविशन्तो मनोभि र्वितर्कयाञ्चक्रुः, एष मनुष्य एतादृशीमीश्वरनिन्दां कथां कुतः कथयति?
7 “Why does this man speak such blasphemies? Who can forgive sins but God alone?”
ईश्वरं विना पापानि मार्ष्टुं कस्य सामर्थ्यम् आस्ते?
8 Immediately Jesus knew in his spirit that they were discussing these questions among themselves, so he said to them, “Why are you questioning these things in your hearts?
इत्थं ते वितर्कयन्ति यीशुस्तत्क्षणं मनसा तद् बुद्व्वा तानवदद् यूयमन्तःकरणैः कुत एतानि वितर्कयथ?
9 Which is easier, to say to the paralytic, ‘Yoʋr sins are forgiven,’ or to say, ‘Rise, take up yoʋr mat, and walk’?
तदनन्तरं यीशुस्तत्स्थानात् पुनः समुद्रतटं ययौ; लोकनिवहे तत्समीपमागते स तान् समुपदिदेश।
10 But so that you may know that the Son of Man has authority on earth to forgive sins”—he said to the paralytic—
किन्तु पृथिव्यां पापानि मार्ष्टुं मनुष्यपुत्रस्य सामर्थ्यमस्ति, एतद् युष्मान् ज्ञापयितुं (स तस्मै पक्षाघातिने कथयामास)
11 “I say to yoʋ, rise, pick up yoʋr mat, and go to yoʋr house.”
उत्तिष्ठ तव शय्यां गृहीत्वा स्वगृहं याहि, अहं त्वामिदम् आज्ञापयामि।
12 So the man immediately rose, picked up his mat, and went out in front of them all, so that they were all amazed and began glorifying God, saying, “We have never seen anything like this!”
ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्।
13 Once again Jesus went out by the sea. The entire crowd came to him, and he taught them.
तदनन्तरं यीशुस्तत्स्थानात् पुनः समुद्रतटं ययौ; लोकनिवहे तत्समीपमागते स तान् समुपदिदेश।
14 As he was walking along, he saw Levi the son of Alphaeus sitting at the tax booth. Jesus said to him, “Follow me,” so Levi rose and followed him.
अथ गच्छन् करसञ्चयगृह उपविष्टम् आल्फीयपुत्रं लेविं दृष्ट्वा तमाहूय कथितवान् मत्पश्चात् त्वामामच्छ ततः स उत्थाय तत्पश्चाद् ययौ।
15 Later, as Jesus was reclining at the table in Levi's house, many tax collectors and sinners reclined with him and his disciples, for there were many who followed him.
अनन्तरं यीशौ तस्य गृहे भोक्तुम् उपविष्टे बहवः करमञ्चायिनः पापिनश्च तेन तच्छिष्यैश्च सहोपविविशुः, यतो बहवस्तत्पश्चादाजग्मुः।
16 When the scribes and the Pharisees saw Jesus eating with tax collectors and sinners, they said to his disciples, “Why is he eating and drinking with tax collectors and sinners?”
तदा स करमञ्चायिभिः पापिभिश्च सह खादति, तद् दृष्ट्वाध्यापकाः फिरूशिनश्च तस्य शिष्यानूचुः करमञ्चायिभिः पापिभिश्च सहायं कुतो भुंक्ते पिवति च?
17 When Jesus heard this, he said to them, “It is not the healthy who need a physician, but the sick. I did not come to call the righteous, but sinners to repentance.”
तद्वाक्यं श्रुत्वा यीशुः प्रत्युवाच, अरोगिलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु रोगिणामेव; अहं धार्म्मिकानाह्वातुं नागतः किन्तु मनो व्यावर्त्तयितुं पापिन एव।
18 Now the disciples of John and the disciples of the Pharisees were fasting. So some people came and said to Jesus, “Why is it that the disciples of John and the disciples of the Pharisees fast, but yoʋr disciples do not fast?”
ततः परं योहनः फिरूशिनाञ्चोपवासाचारिशिष्या यीशोः समीपम् आगत्य कथयामासुः, योहनः फिरूशिनाञ्च शिष्या उपवसन्ति किन्तु भवतः शिष्या नोपवसन्ति किं कारणमस्य?
19 Jesus said to them, “Can the bridegroom's attendants fast while the bridegroom is with them? As long as they have the bridegroom with them they cannot fast.
तदा यीशुस्तान् बभाषे यावत् कालं सखिभिः सह कन्याया वरस्तिष्ठति तावत्कालं ते किमुपवस्तुं शक्नुवन्ति? यावत्कालं वरस्तैः सह तिष्ठति तावत्कालं त उपवस्तुं न शक्नुवन्ति।
20 But the days are coming when the bridegroom will be taken away from them, and then they will fast in those days.
यस्मिन् काले तेभ्यः सकाशाद् वरो नेष्यते स काल आगच्छति, तस्मिन् काले ते जना उपवत्स्यन्ति।
21 “No one sews a piece of unshrunk cloth on an old garment. For the garment's new patch would pull away from the old cloth, and a worse tear would be made.
कोपि जनः पुरातनवस्त्रे नूतनवस्त्रं न सीव्यति, यतो नूतनवस्त्रेण सह सेवने कृते जीर्णं वस्त्रं छिद्यते तस्मात् पुन र्महत् छिद्रं जायते।
22 And no one puts new wine into old wineskins. For the new wine would burst the wineskins; the wine would be spilled, and the wineskins would be ruined. But new wine must be put into new wineskins.”
कोपि जनः पुरातनकुतूषु नूतनं द्राक्षारसं न स्थापयति, यतो नूतनद्राक्षारसस्य तेजसा ताः कुत्वो विदीर्य्यन्ते ततो द्राक्षारसश्च पतति कुत्वश्च नश्यन्ति, अतएव नूतनद्राक्षारसो नूतनकुतूषु स्थापनीयः।
23 On the Sabbath Jesus was going through the grainfields, and his disciples began to make their way, plucking heads of grain.
तदनन्तरं यीशु र्यदा विश्रामवारे शस्यक्षेत्रेण गच्छति तदा तस्य शिष्या गच्छन्तः शस्यमञ्जरीश्छेत्तुं प्रवृत्ताः।
24 So the Pharisees said to him, “Behold, why are they doing what is not lawful to do on the Sabbath?”
अतः फिरूशिनो यीशवे कथयामासुः पश्यतु विश्रामवासरे यत् कर्म्म न कर्त्तव्यं तद् इमे कुतः कुर्व्वन्ति?
25 He said to them, “Have you never read what David did when he had need and was hungry, he and those who were with him,
तदा स तेभ्योऽकथयत् दायूद् तत्संङ्गिनश्च भक्ष्याभावात् क्षुधिताः सन्तो यत् कर्म्म कृतवन्तस्तत् किं युष्माभि र्न पठितम्?
26 how he entered the house of God, in the time of Abiathar the high priest, and ate the bread of the Presence, which is not lawful for anyone to eat except for the priests, and how he also gave it to those who were with him?”
अबियाथर्नामके महायाजकतां कुर्व्वति स कथमीश्वरस्यावासं प्रविश्य ये दर्शनीयपूपा याजकान् विनान्यस्य कस्यापि न भक्ष्यास्तानेव बुभुजे सङ्गिलोकेभ्योऽपि ददौ।
27 Then he said to them, “The Sabbath was made for man, not man for the Sabbath.
सोऽपरमपि जगाद, विश्रामवारो मनुष्यार्थमेव निरूपितोऽस्ति किन्तु मनुष्यो विश्रामवारार्थं नैव।
28 So the Son of Man is Lord even of the Sabbath.”
मनुष्यपुत्रो विश्रामवारस्यापि प्रभुरास्ते।

< Mark 2 >