< Hebrews 9 >
1 Now even the first covenant had regulations for worship and an earthly sanctuary.
स प्रथमो नियम आराधनाया विविधरीतिभिरैहिकपवित्रस्थानेन च विशिष्ट आसीत्।
2 For a tabernacle was prepared. In the first room were the lampstand, the table, and the bread of the Presence; this is called the Holy Place.
यतो दूष्यमेकं निरमीयत तस्य प्रथमकोष्ठस्य नाम पवित्रस्थानमित्यासीत् तत्र दीपवृक्षो भोजनासनं दर्शनीयपूपानां श्रेणी चासीत्।
3 Behind the second veil was a room called the Holy of Holies.
तत्पश्चाद् द्वितीयायास्तिरष्करिण्या अभ्यन्तरे ऽतिपवित्रस्थानमितिनामकं कोष्ठमासीत्,
4 It had a golden censer and the ark of the covenant, which was overlaid on all sides with gold. In the ark were the golden jar containing the manna, the rod of Aaron that had budded, and the tablets of the covenant.
तत्र च सुवर्णमयो धूपाधारः परितः सुवर्णमण्डिता नियममञ्जूषा चासीत् तन्मध्ये मान्नायाः सुवर्णघटो हारोणस्य मञ्जरितदण्डस्तक्षितौ नियमप्रस्तरौ,
5 Above the ark were the cherubim of glory, overshadowing the mercy seat. But we cannot discuss these things in detail now.
तदुपरि च करुणासने छायाकारिणौ तेजोमयौ किरूबावास्ताम्, एतेषां विशेषवृत्तान्तकथनाय नायं समयः।
6 When these things were all in place, the priests regularly entered the first room of the tabernacle, performing their sacred duties.
एतेष्वीदृक् निर्म्मितेषु याजका ईश्वरसेवाम् अनुतिष्ठनतो दूष्यस्य प्रथमकोष्ठं नित्यं प्रविशन्ति।
7 But into the second room, the high priest alone entered only once a year, and never without blood, which he offered for himself and for the unintentional sins of the people.
किन्तु द्वितीयं कोष्ठं प्रतिवर्षम् एककृत्व एकाकिना महायाजकेन प्रविश्यते किन्त्वात्मनिमित्तं लोकानाम् अज्ञानकृतपापानाञ्च निमित्तम् उत्सर्ज्जनीयं रुधिरम् अनादाय तेन न प्रविश्यते।
8 By this arrangement the Holy Spirit was showing that the way into the holy places had not yet been disclosed as long as the first tabernacle was still standing.
इत्यनेन पवित्र आत्मा यत् ज्ञापयति तदिदं तत् प्रथमं दूष्यं यावत् तिष्ठति तावत् महापवित्रस्थानगामी पन्था अप्रकाशितस्तिष्ठति।
9 This is a symbol for the present time, during which gifts and sacrifices are offered that cannot perfect the conscience of the worshiper,
तच्च दूष्यं वर्त्तमानसमयस्य दृष्टान्तः, यतो हेतोः साम्प्रतं संशोधनकालं यावद् यन्निरूपितं तदनुसारात् सेवाकारिणो मानसिकसिद्धिकरणेऽसमर्थाभिः
10 but deal only with food and drink, and various washings and regulations for the flesh, imposed until the time of reformation.
केवलं खाद्यपेयेषु विविधमज्जनेषु च शारीरिकरीतिभि र्युक्तानि नैवेद्यानि बलिदानानि च भवन्ति।
11 But when Christ came as high priest of the good things to come, through the greater and more perfect tabernacle, not made with hands (that is, not of this creation),
अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा
12 he entered once for all into the holy places, not by the blood of goats and calves, but by his own blood, thus obtaining eternal redemption. (aiōnios )
छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्। (aiōnios )
13 For if the blood of bulls and goats, and the ashes of a heifer sprinkled on those who are defiled, sanctify for the purification of the flesh,
वृषछागानां रुधिरेण गवीभस्मनः प्रक्षेपेण च यद्यशुचिलोकाः शारीरिशुचित्वाय पूयन्ते,
14 how much more will the blood of Christ, who through the eternal Spirit offered himself without blemish to God, purify your consciences from dead works to serve the living God? (aiōnios )
तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते? (aiōnios )
15 That is why he is the mediator of a new covenant, so that those who are called may receive the promised eternal inheritance, since a death has occurred that redeems them from the transgressions committed under the first covenant. (aiōnios )
स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्। (aiōnios )
16 For in the case of a will, it is necessary to establish the death of the one who made it,
यत्र नियमो भवति तत्र नियमसाधकस्य बले र्मृत्युना भवितव्यं।
17 because a will takes effect only after the person's death; it is never in force while the person who made it is alive.
यतो हतेन बलिना नियमः स्थिरीभवति किन्तु नियमसाधको बलि र्यावत् जीवति तावत् नियमो निरर्थकस्तिष्ठति।
18 That is why even the first covenant was not inaugurated without blood.
तस्मात् स पूर्व्वनियमोऽपि रुधिरपातं विना न साधितः।
19 For when Moses had proclaimed every commandment of the law to all the people, he took the blood of calves and goats, along with water, scarlet wool, and hyssop, and sprinkled the scroll itself and all the people,
फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे,
20 saying, “This is the blood of the covenant that God has ordained for you.”
युष्मान् अधीश्वरो यं नियमं निरूपितवान् तस्य रुधिरमेतत्।
21 In the same way, he sprinkled with blood the tabernacle and all the vessels used in worship.
तद्वत् स दूष्येऽपि सेवार्थकेषु सर्व्वपात्रेषु च रुधिरं प्रक्षिप्तवान्।
22 Indeed, according to the law nearly everything is purified with blood, and without the shedding of blood there is no remission.
अपरं व्यवस्थानुसारेण प्रायशः सर्व्वाणि रुधिरेण परिष्क्रियन्ते रुधिरपातं विना पापमोचनं न भवति च।
23 So it was necessary for the copies of the things in heaven to be purified with these sacrifices, but for the heavenly things themselves to be purified with better sacrifices than these.
अपरं यानि स्वर्गीयवस्तूनां दृष्टान्तास्तेषाम् एतैः पावनम् आवश्यकम् आसीत् किन्तु साक्षात् स्वर्गीयवस्तूनाम् एतेभ्यः श्रेष्ठेै र्बलिदानैः पावनमावश्यकं।
24 For Christ did not enter holy places made with hands, which are copies of the true ones; he entered heaven itself, so that he might now appear before God on our behalf.
यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।
25 Nor did he enter heaven to offer himself many times, as the high priest enters the holy places year after year with blood that is not his own,
यथा च महायाजकः प्रतिवर्षं परशोणितमादाय महापवित्रस्थानं प्रविशति तथा ख्रीष्टेन पुनः पुनरात्मोत्सर्गो न कर्त्तव्यः,
26 for then he would have had to suffer again and again since the foundation of the world. But as it is, he has appeared once for all at the end of the ages to remove sin by the sacrifice of himself. (aiōn )
कर्त्तव्ये सति जगतः सृष्टिकालमारभ्य बहुवारं तस्य मृत्युभोग आवश्यकोऽभवत्; किन्त्विदानीं स आत्मोत्सर्गेण पापनाशार्थम् एककृत्वो जगतः शेषकाले प्रचकाशे। (aiōn )
27 And just as it is appointed for men to die once and then face judgment,
अपरं यथा मानुषस्यैककृत्वो मरणं तत् पश्चाद् विचारो निरूपितोऽस्ति,
28 so also Christ, having been offered once to bear the sins of many, will appear a second time, not to bear sin, but to bring salvation to those who are eagerly waiting for him.
तद्वत् ख्रीष्टोऽपि बहूनां पापवहनार्थं बलिरूपेणैककृत्व उत्ससृजे, अपरं द्वितीयवारं पापाद् भिन्नः सन् ये तं प्रतीक्षन्ते तेषां परित्राणार्थं दर्शनं दास्यति।