< Acts 24 >
1 Five days later the high priest Ananias came down with the elders and an attorney named Tertullus. They presented their case against Paul to the governor.
पञ्चभ्यो दिनेभ्यः परं हनानीयनामा महायाजकोऽधिपतेः समक्षं पौलस्य प्रातिकूल्येन निवेदयितुं तर्तुल्लनामानं कञ्चन वक्तारं प्राचीनजनांश्च सङ्गिनः कृत्वा कैसरियानगरम् आगच्छत्।
2 When Paul had been summoned, Tertullus began to present his case before Felix, saying, “Since we have experienced much peace because of yoʋ, and prosperity is coming to this nation by yoʋr foresight,
ततः पौले समानीते सति तर्तुल्लस्तस्यापवादकथां कथयितुम् आरभत हे महामहिमफीलिक्ष भवतो वयम् अतिनिर्व्विघ्नं कालं यापयामो भवतः परिणामदर्शितया एतद्देशीयानां बहूनि मङ्गलानि घटितानि,
3 both in every way and in every place we acknowledge it, most excellent Felix, with the utmost gratitude.
इति हेतो र्वयमतिकृतज्ञाः सन्तः सर्व्वत्र सर्व्वदा भवतो गुणान् गायमः।
4 But so that I may not detain yoʋ any further, I request that, in yoʋr forbearance, yoʋ would hear us briefly.
किन्तु बहुभिः कथाभि र्भवन्तं येन न विरञ्जयामि तस्माद् विनये भवान् बनुकम्प्य मदल्पकथां शृणोतु।
5 For we have found this man to be a pestilent fellow, an instigator of dissension among all the Jews throughout the world, and a ringleader of the sect of the Nazarenes.
एष महामारीस्वरूपो नासरतीयमतग्राहिसंघातस्य मुख्यो भूत्वा सर्व्वदेशेषु सर्व्वेषां यिहूदीयानां राजद्रोहाचरणप्रवृत्तिं जनयतीत्यस्माभि र्निश्चितं।
6 He even tried to desecrate the temple, so we seized him.
स मन्दिरमपि अशुचि कर्त्तुं चेष्टितवान्; इति कारणाद् वयम् एनं धृत्वा स्वव्यवस्थानुसारेण विचारयितुं प्रावर्त्तामहि;
किन्तु लुषियः सहस्रसेनापतिरागत्य बलाद् अस्माकं करेभ्य एनं गृहीत्वा
8 By examining him yoʋrself yoʋ will be able to learn the truth about all these accusations we are making against him.”
एतस्यापवादकान् भवतः समीपम् आगन्तुम् आज्ञापयत्। वयं यस्मिन् तमपवादामो भवता पदपवादकथायां विचारितायां सत्यां सर्व्वं वृत्तान्तं वेदितुं शक्ष्यते।
9 The Jews also joined in the accusation, claiming that these things were so.
ततो यिहूदीया अपि स्वीकृत्य कथितवन्त एषा कथा प्रमाणम्।
10 When the governor motioned for him to speak, Paul responded, “Knowing that yoʋ have been a judge over this nation for many years, I all the more cheerfully make my defense concerning these charges against me.
अधिपतौ कथां कथयितुं पौलं प्रतीङ्गितं कृतवति स कथितवान् भवान् बहून् वत्सरान् यावद् एतद्देशस्य शासनं करोतीति विज्ञाय प्रत्युत्तरं दातुम् अक्षोभोऽभवम्।
11 Yoʋ can ascertain that it has not been more than twelve days since I went up to worship in Jerusalem.
अद्य केवलं द्वादश दिनानि यातानि, अहम् आराधनां कर्त्तुं यिरूशालमनगरं गतवान् एषा कथा भवता ज्ञातुं शक्यते;
12 Neither in the temple courts, nor in the synagogues, nor anywhere in the city did they find me arguing with anyone or stirring up a crowd.
किन्त्विभे मां मध्येमन्दिरं केनापि सह वितण्डां कुर्व्वन्तं कुत्रापि भजनभवने नगरे वा लोकान् कुप्रवृत्तिं जनयन्तुं न दृष्टवन्तः।
13 Nor can they offer any proof against me concerning the things of which they now accuse me.
इदानीं यस्मिन् यस्मिन् माम् अपवदन्ते तस्य किमपि प्रमाणं दातुं न शक्नुवन्ति।
14 But I confess this to yoʋ, that according to the Way, which they call a sect, I serve the God of our fathers, believing everything that is written throughout the Law and in the Prophets,
किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि।
15 having a hope in God, which these men themselves also accept, that there will be a resurrection of the dead, both of the righteous and the unrighteous.
धार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;
16 Because of this I strive the way I do, always having a clear conscience before God and men.
ईश्वरस्य मानवानाञ्च समीपे यथा निर्दोषो भवामि तदर्थं सततं यत्नवान् अस्मि।
17 After being away for many years, I came to bring charitable gifts to my nation along with offerings.
बहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्।
18 While I was doing this, some Jews from Asia found me in the temple courts as I was completing the rite of purification, without any crowd or commotion.
ततोहं शुचि र्भूत्वा लोकानां समागमं कलहं वा न कारितवान् तथाप्याशियादेशीयाः कियन्तो यिहुदीयलोका मध्येमन्दिरं मां धृतवन्तः।
19 They ought to be here before yoʋ and make an accusation if they have anything against me.
ममोपरि यदि काचिदपवादकथास्ति तर्हि भवतः समीपम् उपस्थाय तेषामेव साक्ष्यदानम् उचितम्।
20 Or these men themselves should state what wrongdoing they found in me when I stood before the Sanhedrin,
नोचेत् पूर्व्वे महासभास्थानां लोकानां सन्निधौ मम दण्डायमानत्वसमये, अहमद्य मृतानामुत्थाने युष्माभि र्विचारितोस्मि,
21 other than this one thing that I cried out while standing among them: ‘It is regarding the resurrection of the dead that I am being tried by you today.’”
तेषां मध्ये तिष्ठन्नहं यामिमां कथामुच्चैः स्वरेण कथितवान् तदन्यो मम कोपि दोषोऽलभ्यत न वेति वरम् एते समुपस्थितलोका वदन्तु।
22 After hearing these things, Felix, who knew the facts concerning the Way in great detail, had them adjourn, saying, “When Lysias the commander comes down, I will decide your case.”
तदा फीलिक्ष एतां कथां श्रुत्वा तन्मतस्य विशेषवृत्तान्तं विज्ञातुं विचारं स्थगितं कृत्वा कथितवान् लुषिये सहस्रसेनापतौ समायाते सति युष्माकं विचारम् अहं निष्पादयिष्यामि।
23 Then he ordered the centurion to keep Paul in custody, but to allow him a certain measure of freedom and not to prevent his own people from attending to his needs or visiting him.
अनन्तरं बन्धनं विना पौलं रक्षितुं तस्य सेवनाय साक्षात्करणाय वा तदीयात्मीयबन्धुजनान् न वारयितुञ्च शमसेनापतिम् आदिष्टवान्।
24 After several days, when Felix came back with his wife Drusilla, who was Jewish, he sent for Paul and listened to him speak about faith in Christ.
अल्पदिनात् परं फीलिक्षोऽधिपति र्द्रुषिल्लानाम्ना यिहूदीयया स्वभार्य्यया सहागत्य पौलमाहूय तस्य मुखात् ख्रीष्टधर्म्मस्य वृत्तान्तम् अश्रौषीत्।
25 But as Paul was discussing righteousness, self-control, and the coming judgment, Felix became frightened and said in response, “Go away for now, and when I get an opportunity I will call for yoʋ.”
पौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि।
26 At the same time he was hoping that Paul would give him money, so that he might release him. So he would send for Paul quite often and converse with him.
मुक्तिप्रप्त्यर्थं पौलेन मह्यं मुद्रादास्यन्ते इति पत्याशां कृत्वा स पुनः पुनस्तमाहूय तेन साकं कथोपकथनं कृतवान्।
27 But after two years had passed, Felix was succeeded by Porcius Festus. And wishing to gain favor with the Jews, Felix left Paul in prison.
किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।