< Mark 8 >
1 In those days, when there was a large crowd, and they had nothing to eat, he called the disciples to himself, and said to them,
तदा तत्समीपं बहवो लोका आयाता अतस्तेषां भोज्यद्रव्याभावाद् यीशुः शिष्यानाहूय जगाद, ।
2 "I have compassion on the crowd, because they have stayed with me now three days, and have nothing to eat.
लोकनिवहे मम कृपा जायते ते दिनत्रयं मया सार्द्धं सन्ति तेषां भोज्यं किमपि नास्ति।
3 If I send them away fasting to their home, they will faint on the way, and some of them have come a long way."
तेषां मध्येऽनेके दूराद् आगताः, अभुक्तेषु तेषु मया स्वगृहमभिप्रहितेषु ते पथि क्लमिष्यन्ति।
4 His disciples answered him, "From where could one satisfy these people with bread here in a deserted place?"
शिष्या अवादिषुः, एतावतो लोकान् तर्पयितुम् अत्र प्रन्तरे पूपान् प्राप्तुं केन शक्यते?
5 He asked them, "How many loaves do you have?" They said, "Seven."
ततः स तान् पप्रच्छ युष्माकं कति पूपाः सन्ति? तेऽकथयन् सप्त।
6 He commanded the crowd to sit down on the ground, and he took the seven loaves. Having given thanks, he broke them, and gave them to his disciples to serve, and they served the crowd.
ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः।
7 They had a few small fish. Having blessed them, he said to serve these also.
तथा तेषां समीपे ये क्षुद्रमत्स्या आसन् तानप्यादाय ईश्वरगुणान् संकीर्त्य परिवेषयितुम् आदिष्टवान्।
8 They ate, and were filled. They took up seven baskets of broken pieces that were left over.
ततो लोका भुक्त्वा तृप्तिं गता अवशिष्टखाद्यैः पूर्णाः सप्तडल्लका गृहीताश्च।
9 Now they were about four thousand. Then he sent them away.
एते भोक्तारः प्रायश्चतुः सहस्रपुरुषा आसन् ततः स तान् विससर्ज।
10 Immediately he entered into the boat with his disciples, and came into the region of Dalmanutha.
अथ स शिष्यः सह नावमारुह्य दल्मानूथासीमामागतः।
11 The Pharisees came out and began to question him, seeking from him a sign from heaven, and testing him.
ततः परं फिरूशिन आगत्य तेन सह विवदमानास्तस्य परीक्षार्थम् आकाशीयचिह्नं द्रष्टुं याचितवन्तः।
12 He sighed deeply in his spirit, and said, "Why does this generation seek a sign? Truly I tell you, no sign will be given to this generation."
तदा सोऽन्तर्दीर्घं निश्वस्याकथयत्, एते विद्यमाननराः कुतश्चिन्हं मृगयन्ते? युष्मानहं यथार्थं ब्रवीमि लोकानेतान् किमपि चिह्नं न दर्शयिष्यते।
13 And he left them, and got into the boat again, and went to the other side.
अथ तान् हित्वा पुन र्नावम् आरुह्य पारमगात्।
14 Now they forgot to take bread; and they did not have more than one loaf in the boat with them.
एतर्हि शिष्यैः पूपेषु विस्मृतेषु नावि तेषां सन्निधौ पूप एकएव स्थितः।
15 He warned them, saying, "Watch out; guard yourselves against the yeast of the Pharisees and the yeast of Herod."
तदानीं यीशुस्तान् आदिष्टवान् फिरूशिनां हेरोदश्च किण्वं प्रति सतर्काः सावधानाश्च भवत।
16 And they began discussing among themselves that they had no bread.
ततस्तेऽन्योन्यं विवेचनं कर्तुम् आरेभिरे, अस्माकं सन्निधौ पूपो नास्तीति हेतोरिदं कथयति।
17 He, perceiving it, said to them, "Why do you reason that it's because you have no bread? Do you not perceive yet, neither understand? Are your hearts hardened?
तद् बुद्व्वा यीशुस्तेभ्योऽकथयत् युष्माकं स्थाने पूपाभावात् कुत इत्थं वितर्कयथ? यूयं किमद्यापि किमपि न जानीथ? बोद्धुञ्च न शक्नुथ? यावदद्य किं युष्माकं मनांसि कठिनानि सन्ति?
18 Having eyes, do you not see? Having ears, do you not hear? Do you not remember?
सत्सु नेत्रेषु किं न पश्यथ? सत्सु कर्णेषु किं न शृणुथ? न स्मरथ च?
19 When I broke the five loaves among the five thousand, how many baskets full of broken pieces did you take up?" They told him, "Twelve."
यदाहं पञ्चपूपान् पञ्चसहस्राणां पुरुषाणां मध्ये भंक्त्वा दत्तवान् तदानीं यूयम् अवशिष्टपूपैः पूर्णान् कति डल्लकान् गृहीतवन्तः? तेऽकथयन् द्वादशडल्लकान्।
20 "When the seven loaves fed the four thousand, how many baskets full of broken pieces did you take up?" And they said, "Seven."
अपरञ्च यदा चतुःसहस्राणां पुरुषाणां मध्ये पूपान् भंक्त्वाददां तदा यूयम् अतिरिक्तपूपानां कति डल्लकान् गृहीतवन्तः? ते कथयामासुः सप्तडल्लकान्।
21 He asked them, "Do you not yet understand?"
तदा स कथितवान् तर्हि यूयम् अधुनापि कुतो बोद्व्वुं न शक्नुथ?
22 He came to Bethsaida. They brought a blind man to him, and begged Jesus to touch him.
अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे।
23 He took hold of the blind man by the hand, and brought him out of the village. When he had spit on his eyes, and laid his hands on him, he asked him if he saw anything.
तदा तस्यान्धस्य करौ गृहीत्वा नगराद् बहिर्देशं तं नीतवान्; तन्नेत्रे निष्ठीवं दत्त्वा तद्गात्रे हस्तावर्पयित्वा तं पप्रच्छ, किमपि पश्यसि?
24 He looked up, and said, "I see people; they look like trees walking."
स नेत्रे उन्मील्य जगाद, वृक्षवत् मनुजान् गच्छतो निरीक्षे।
25 Then again he laid his hands on his eyes. He made him look up, and was restored, and saw everything clearly.
ततो यीशुः पुनस्तस्य नयनयो र्हस्तावर्पयित्वा तस्य नेत्रे उन्मीलयामास; तस्मात् स स्वस्थो भूत्वा स्पष्टरूपं सर्व्वलोकान् ददर्श।
26 He sent him away to his house, saying, "Do not enter into the village."
ततः परं त्वं ग्रामं मा गच्छ ग्रामस्थं कमपि च किमप्यनुक्त्वा निजगृहं याहीत्यादिश्य यीशुस्तं निजगृहं प्रहितवान्।
27 Jesus went out, with his disciples, into the villages of Caesarea Philippi. On the way he asked his disciples, "Who do people say that I am?"
अनन्तरं शिष्यैः सहितो यीशुः कैसरीयाफिलिपिपुरं जगाम, पथि गच्छन् तानपृच्छत् कोऽहम् अत्र लोकाः किं वदन्ति?
28 And they said to him, saying, "John the Baptist, and others say Elijah, but others: one of the prophets."
ते प्रत्यूचुः त्वां योहनं मज्जकं वदन्ति किन्तु केपि केपि एलियं वदन्ति; अपरे केपि केपि भविष्यद्वादिनाम् एको जन इति वदन्ति।
29 He said to them, "But who do you say that I am?" Peter answered and said to him, "You are the Christ."
अथ स तानपृच्छत् किन्तु कोहम्? इत्यत्र यूयं किं वदथ? तदा पितरः प्रत्यवदत् भवान् अभिषिक्तस्त्राता।
30 He commanded them that they should tell no one about him.
ततः स तान् गाढमादिशद् यूयं मम कथा कस्मैचिदपि मा कथयत।
31 He began to teach them that the Son of Man must suffer many things, and be rejected by the elders, the chief priests, and the scribes, and be killed, and after three days rise again.
मनुष्यपुत्रेणावश्यं बहवो यातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च स निन्दितः सन् घातयिष्यते तृतीयदिने उत्थास्यति च, यीशुः शिष्यानुपदेष्टुमारभ्य कथामिमां स्पष्टमाचष्ट।
32 He spoke to them openly. Peter took him, and began to rebuke him.
तस्मात् पितरस्तस्य हस्तौ धृत्वा तं तर्ज्जितवान्।
33 But he, turning around, and seeing his disciples, rebuked Peter, and said, "Get behind me, Satan. For you have in mind not the things of God, but the things of humans."
किन्तु स मुखं परावर्त्य शिष्यगणं निरीक्ष्य पितरं तर्जयित्वावादीद् दूरीभव विघ्नकारिन् ईश्वरीयकार्य्यादपि मनुष्यकार्य्यं तुभ्यं रोचततरां।
34 He called the crowd to himself with his disciples, and said to them, "If anyone wants to come after me, let him deny himself, and take up his cross, and follow me.
अथ स लोकान् शिष्यांश्चाहूय जगाद यः कश्चिन् मामनुगन्तुम् इच्छति स आत्मानं दाम्यतु, स्वक्रुशं गृहीत्वा मत्पश्चाद् आयातु।
35 For whoever wants to save his life will lose it; and whoever will lose his life for my sake and the sake of the Good News will save it.
यतो यः कश्चित् स्वप्राणं रक्षितुमिच्छति स तं हारयिष्यति, किन्तु यः कश्चिन् मदर्थं सुसंवादार्थञ्च प्राणं हारयति स तं रक्षिष्यति।
36 For what does it profit a person to gain the whole world, and forfeit his soul?
अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः?
37 Or what will a person give in exchange for his soul?
नरः स्वप्राणविनिमयेन किं दातुं शक्नोति?
38 For whoever will be ashamed of me and of my words in this adulterous and sinful generation, the Son of Man also will be ashamed of him, when he comes in the glory of his Father with the holy angels."
एतेषां व्यभिचारिणां पापिनाञ्च लोकानां साक्षाद् यदि कोपि मां मत्कथाञ्च लज्जास्पदं जानाति तर्हि मनुजपुत्रो यदा धर्म्मदूतैः सह पितुः प्रभावेणागमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।