< Mark 14 >
1 It was now two days before the feast of the Passover and the unleavened bread, and the chief priests and the scribes sought how they might seize him by deception, and kill him.
तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे;
2 For they said, "Not during the feast, because there might be a riot of the people."
किन्तु लोकानां कलहभयादूचिरे, नचोत्सवकाल उचितमेतदिति।
3 While he was at Bethany, in the house of Simon the leper, as he was reclining, a woman came having an alabaster jar of ointment of pure nard—very costly. She broke the jar, and poured it over his head.
अनन्तरं बैथनियापुुरे शिमोनकुष्ठिनो गृहे योशौ भोत्कुमुपविष्टे सति काचिद् योषित् पाण्डरपाषाणस्य सम्पुटकेन महार्घ्योत्तमतैलम् आनीय सम्पुटकं भंक्त्वा तस्योत्तमाङ्गे तैलधारां पातयाञ्चक्रे।
4 But there were some who were indignant among themselves, and saying, "Why has this ointment been wasted?
तस्मात् केचित् स्वान्ते कुप्यन्तः कथितवंन्तः कुतोयं तैलापव्ययः?
5 For this ointment might have been sold for more than three hundred denarii, and given to the poor." They grumbled against her.
यद्येतत् तैल व्यक्रेष्यत तर्हि मुद्रापादशतत्रयादप्यधिकं तस्य प्राप्तमूल्यं दरिद्रलोकेभ्यो दातुमशक्ष्यत, कथामेतां कथयित्वा तया योषिता साकं वाचायुह्यन्।
6 But Jesus said, "Leave her alone. Why do you trouble her? She has done a good work for me.
किन्तु यीशुरुवाच, कुत एतस्यै कृच्छ्रं ददासि? मह्यमियं कर्म्मोत्तमं कृतवती।
7 For you always have the poor with you, and whenever you want to, you can do them good; but you will not always have me.
दरिद्राः सर्व्वदा युष्माभिः सह तिष्ठन्ति, तस्माद् यूयं यदेच्छथ तदैव तानुपकर्त्तां शक्नुथ, किन्त्वहं युभाभिः सह निरन्तरं न तिष्ठामि।
8 She has done what she could. She has anointed my body beforehand for the burying.
अस्या यथासाध्यं तथैवाकरोदियं, श्मशानयापनात् पूर्व्वं समेत्य मद्वपुषि तैलम् अमर्द्दयत्।
9 Truly I tell you, wherever this Good News may be preached throughout the whole world, that which this woman has done will also be spoken of for a memorial of her."
अहं युष्मभ्यं यथार्थं कथयामि, जगतां मध्ये यत्र यत्र सुसंवादोयं प्रचारयिष्यते तत्र तत्र योषित एतस्याः स्मरणार्थं तत्कृतकर्म्मैतत् प्रचारयिष्यते।
10 Judas Iscariot, who was one of the twelve, went away to the chief priests, that he might deliver him to them.
ततः परं द्वादशानां शिष्याणामेक ईष्करियोतीययिहूदाख्यो यीशुं परकरेषु समर्पयितुं प्रधानयाजकानां समीपमियाय।
11 They, when they heard it, were glad, and promised to give him money. He sought how he might conveniently deliver him.
ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास।
12 On the first day of unleavened bread, when they sacrificed the Passover lamb, his disciples asked him, "Where do you want us to go and make ready that you may eat the Passover?"
अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?
13 He sent two of his disciples, and said to them, "Go into the city, and there you will meet a man carrying a pitcher of water. Follow him,
तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं;
14 and wherever he enters in, tell the master of the house, 'The Teacher says, "Where is my guest room, where I may eat the Passover with my disciples?"'
स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति?
15 He will himself show you a large upper room furnished and ready. Make ready for us there."
ततः स परिष्कृतां सुसज्जितां बृहतीचञ्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं।
16 The disciples went out, and came into the city, and found things as he had said to them, and they prepared the Passover.
ततः शिष्यौ प्रस्थाय पुरं प्रविश्य स यथोक्तवान् तथैव प्राप्य निस्तारोत्सवस्य भोज्यद्रव्याणि समासादयेताम्।
17 When it was evening he came with the twelve.
अनन्तरं यीशुः सायंकाले द्वादशभिः शिष्यैः सार्द्धं जगाम;
18 And as they were reclining and eating, Jesus said, "Truly I tell you, one of you will betray me—he who eats with me."
सर्व्वेषु भोजनाय प्रोपविष्टेषु स तानुदितवान् युष्मानहं यथार्थं व्याहरामि, अत्र युष्माकमेको जनो यो मया सह भुंक्ते मां परकेरेषु समर्पयिष्यते।
19 And they began to be sorrowful, and to say to him one by one, "Surely not I?" And another said, "Surely not I?"
तदानीं ते दुःखिताः सन्त एकैकशस्तं प्रष्टुमारब्धवन्तः स किमहं? पश्चाद् अन्य एकोभिदधे स किमहं?
20 He said to them, "It is one of the twelve, he who dips with me in the dish.
ततः स प्रत्यवदद् एतेषां द्वादशानां यो जनो मया समं भोजनापात्रे पाणिं मज्जयिष्यति स एव।
21 For the Son of Man goes, even as it is written about him, but woe to that man by whom the Son of Man is betrayed. It would be better for that man if he had not been born."
मनुजतनयमधि यादृशं लिखितमास्ते तदनुरूपा गतिस्तस्य भविष्यति, किन्तु यो जनो मानवसुतं समर्पयिष्यते हन्त तस्य जन्माभावे सति भद्रमभविष्यत्।
22 As they were eating, he took bread, and when he had blessed, he broke it, and gave to them, and said, "Take; this is my body."
अपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भङ्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं।
23 He took a cup, and when he had given thanks, he gave to them. They all drank of it.
अनन्तरं स कंसं गृहीत्वेश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो ददौ, ततस्ते सर्व्वे पपुः।
24 He said to them, "This is my blood of the new covenant, which is poured out for many.
अपरं स तानवादीद् बहूनां निमित्तं पातितं मम नवीननियमरूपं शोणितमेतत्।
25 Truly I tell you, I will no more drink of the fruit of the vine, until that day when I drink it anew in the kingdom of God."
युष्मानहं यथार्थं वदामि, ईश्वरस्य राज्ये यावत् सद्योजातं द्राक्षारसं न पास्यामि, तावदहं द्राक्षाफलरसं पुन र्न पास्यामि।
26 When they had sung the hymn, they went out to the Mount of Olives.
तदनन्तरं ते गीतमेकं संगीय बहि र्जैतुनं शिखरिणं ययुः
27 Jesus said to them, "All of you will fall away, for it is written, 'I will strike the shepherd, and the sheep will be scattered.'
अथ यीशुस्तानुवाच निशायामस्यां मयि युष्माकं सर्व्वेषां प्रत्यूहो भविष्यति यतो लिखितमास्ते यथा, मेषाणां रक्षकञ्चाहं प्रहरिष्यामि वै ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति।
28 However, after I am raised up, I will go before you into Galilee."
कन्तु मदुत्थाने जाते युष्माकमग्रेऽहं गालीलं व्रजिष्यामि।
29 But Peter said to him, "Although all will be offended, yet I will not."
तदा पितरः प्रतिबभाषे, यद्यपि सर्व्वेषां प्रत्यूहो भवति तथापि मम नैव भविष्यति।
30 Jesus said to him, "Truly I tell you, that today, even this night, before the rooster crows twice, you will deny me three times."
ततो यीशुरुक्तावान् अहं तुभ्यं तथ्यं कथयामि, क्षणादायामद्य कुक्कुटस्य द्वितीयवाररवणात् पूर्व्वं त्वं वारत्रयं मामपह्नोष्यसे।
31 But he insisted, "If I must die with you, I will not deny you." They all said the same thing.
किन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे।
32 They came to a place which was named Gethsemane. He said to his disciples, "Sit here, while I pray."
अपरञ्च तेषु गेत्शिमानीनामकं स्थान गतेषु स शिष्यान् जगाद, यावदहं प्रार्थये तावदत्र स्थाने यूयं समुपविशत।
33 He took with him Peter, James, and John, and began to be greatly troubled and distressed.
अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,
34 He said to them, "My soul is exceedingly sorrowful, even to death. Stay here, and watch."
निधनकालवत् प्राणो मेऽतीव दःखमेति, यूयं जाग्रतोत्र स्थाने तिष्ठत।
35 He went forward a little, and fell on the ground, and prayed that, if it were possible, the hour might pass away from him.
ततः स किञ्चिद्दूरं गत्वा भूमावधोमुखः पतित्वा प्रार्थितवानेतत्, यदि भवितुं शक्यं तर्हि दुःखसमयोयं मत्तो दूरीभवतु।
36 He said, "Abba, Father, all things are possible to you. Please remove this cup from me. However, not what I desire, but what you desire."
अपरमुदितवान् हे पित र्हे पितः सर्व्वें त्वया साध्यं, ततो हेतोरिमं कंसं मत्तो दूरीकुरु, किन्तु तन् ममेच्छातो न तवेच्छातो भवतु।
37 He came and found them sleeping, and said to Peter, "Simon, are you sleeping? Could you not watch one hour?
ततः परं स एत्य तान् निद्रितान् निरीक्ष्य पितरं प्रोवाच, शिमोन् त्वं किं निद्रासि? घटिकामेकाम् अपि जागरितुं न शक्नोषि?
38 Watch and pray, that you may not enter into temptation. The spirit indeed is willing, but the flesh is weak."
परीक्षायां यथा न पतथ तदर्थं सचेतनाः सन्तः प्रार्थयध्वं; मन उद्युक्तमिति सत्यं किन्तु वपुरशक्तिकं।
39 Again he went away, and prayed, saying the same words.
अथ स पुनर्व्रजित्वा पूर्व्ववत् प्रार्थयाञ्चक्रे।
40 Again he came and found them sleeping again, for their eyes were very heavy, and they did not know what to answer him.
परावृत्यागत्य पुनरपि तान् निद्रितान् ददर्श तदा तेषां लोचनानि निद्रया पूर्णानि, तस्मात्तस्मै का कथा कथयितव्या त एतद् बोद्धुं न शेकुः।
41 He came the third time, and said to them, "Sleep on now, and take your rest. It is enough. The hour has come. Look, the Son of Man is betrayed into the hands of sinners.
ततःपरं तृतीयवारं आगत्य तेभ्यो ऽकथयद् इदानीमपि शयित्वा विश्राम्यथ? यथेष्टं जातं, समयश्चोपस्थितः पश्यत मानवतनयः पापिलोकानां पाणिषु समर्प्यते।
42 Arise, let us be going. Look, he who betrays me is near."
उत्तिष्ठत, वयं व्रजामो यो जनो मां परपाणिषु समर्पयिष्यते पश्यत स समीपमायातः।
43 Immediately, while he was still speaking, Judas, one of the twelve, came—and with him a crowd with swords and clubs, from the chief priests, the scribes, and the elders.
इमां कथां कथयति स, एतर्हिद्वादशानामेको यिहूदा नामा शिष्यः प्रधानयाजकानाम् उपाध्यायानां प्राचीनलोकानाञ्च सन्निधेः खङ्गलगुडधारिणो बहुलोकान् गृहीत्वा तस्य समीप उपस्थितवान्।
44 Now he who betrayed him had given them a sign, saying, "Whomever I will kiss, that is he. Seize him, and lead him away safely."
अपरञ्चासौ परपाणिषु समर्पयिता पूर्व्वमिति सङ्केतं कृतवान् यमहं चुम्बिष्यामि स एवासौ तमेव धृत्वा सावधानं नयत।
45 When he had come, immediately he came to him, and said, "Rabbi." and kissed him.
अतो हेतोः स आगत्यैव योशोः सविधं गत्वा हे गुरो हे गुरो, इत्युक्त्वा तं चुचुम्ब।
46 They laid hands on him, and seized him.
तदा ते तदुपरि पाणीनर्पयित्वा तं दध्नुः।
47 But a certain one of those who stood by drew his sword, and struck the servant of the high priest, and cut off his ear.
ततस्तस्य पार्श्वस्थानां लोकानामेकः खङ्गं निष्कोषयन् महायाजकस्य दासमेकं प्रहृत्य तस्य कर्णं चिच्छेद।
48 Jesus answered them, "Have you come out, as against a robber, with swords and clubs to seize me?
पश्चाद् यीशुस्तान् व्याजहार खङ्गान् लगुडांश्च गृहीत्वा मां किं चौरं धर्त्तां समायाताः?
49 I was daily with you in the temple teaching, and you did not arrest me. But this is so that the Scriptures might be fulfilled."
मध्येमन्दिरं समुपदिशन् प्रत्यहं युष्माभिः सह स्थितवानतहं, तस्मिन् काले यूयं मां नादीधरत, किन्त्वनेन शास्त्रीयं वचनं सेधनीयं।
50 They all left him, and fled.
तदा सर्व्वे शिष्यास्तं परित्यज्य पलायाञ्चक्रिरे।
51 And a certain young man followed him, having a linen cloth thrown around himself, over his naked body. And they grabbed him,
अथैको युवा मानवो नग्नकाये वस्त्रमेकं निधाय तस्य पश्चाद् व्रजन् युवलोकै र्धृतो
52 but he left the linen cloth, and fled naked.
वस्त्रं विहाय नग्नः पलायाञ्चक्रे।
53 They led Jesus away to the high priest. All the chief priests, the elders, and the scribes came together.
अपरञ्च यस्मिन् स्थाने प्रधानयाजका उपाध्यायाः प्राचीनलोकाश्च महायाजकेन सह सदसि स्थितास्तस्मिन् स्थाने महायाजकस्य समीपं यीशुं निन्युः।
54 Peter had followed him from a distance, until he came into the court of the high priest. He was sitting with the officers, and warming himself in the light of the fire.
पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य किङ्करैः सहोपविश्य वह्नितापं जग्राह।
55 Now the chief priests and the whole council sought witnesses against Jesus to put him to death, and found none.
तदानीं प्रधानयाजका मन्त्रिणश्च यीशुं घातयितुं तत्प्रातिकूल्येन साक्षिणो मृगयाञ्चक्रिरे, किन्तु न प्राप्ताः।
56 For many gave false testimony against him, and their testimony did not agree with each other.
अनेकैस्तद्विरुद्धं मृषासाक्ष्ये दत्तेपि तेषां वाक्यानि न समगच्छन्त।
57 Some stood up, and gave false testimony against him, saying,
सर्व्वशेषे कियन्त उत्थाय तस्य प्रातिकूल्येन मृषासाक्ष्यं दत्त्वा कथयामासुः,
58 "We heard him say, 'I will destroy this temple that is made with hands, and in three days I will build another made without hands.'"
इदं करकृतमन्दिरं विनाश्य दिनत्रयमध्ये पुनरपरम् अकरकृतं मन्दिरं निर्म्मास्यामि, इति वाक्यम् अस्य मुखात् श्रुतमस्माभिरिति।
59 Even so, their testimony did not agree.
किन्तु तत्रापि तेषां साक्ष्यकथा न सङ्गाताः।
60 The high priest stood up in the midst, and asked Jesus, "Have you no answer? What is it which these testify against you?"
अथ महायाजको मध्येसभम् उत्थाय यीशुं व्याजहार, एते जनास्त्वयि यत् साक्ष्यमदुः त्वमेतस्य किमप्युत्तरं किं न दास्यसि?
61 But he stayed quiet, and answered nothing. Again the high priest asked him, "Are you the Christ, the Son of the Blessed One?"
किन्तु स किमप्युत्तरं न दत्वा मौनीभूय तस्यौ; ततो महायाजकः पुनरपि तं पृष्टावान् त्वं सच्चिदानन्दस्य तनयो ऽभिषिक्तस्त्रता?
62 And Jesus said, "I am, and you will see the Son of Man sitting at the right hand of Power, and coming with the clouds of the sky."
तदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ।
63 The high priest tore his clothes, and said, "What further need have we of witnesses?
तदा महायाजकः स्वं वमनं छित्वा व्यावहरत्
64 You have heard the blasphemy. What do you think?" They all condemned him to be worthy of death.
किमस्माकं साक्षिभिः प्रयोजनम्? ईश्वरनिन्दावाक्यं युष्माभिरश्रावि किं विचारयथ? तदानीं सर्व्वे जगदुरयं निधनदण्डमर्हति।
65 Some began to spit on him, and to cover his face, and to beat him with fists, and to tell him, "Prophesy." And the officers took him and beat him.
ततः कश्चित् कश्चित् तद्वपुषि निष्ठीवं निचिक्षेप तथा तन्मुखमाच्छाद्य चपेटेन हत्वा गदितवान् गणयित्वा वद, अनुचराश्च चपेटैस्तमाजघ्नुः
66 Now as Peter was in the courtyard below, one of the servant girls of the high priest came,
ततः परं पितरेऽट्टालिकाधःकोष्ठे तिष्ठति महायाजकस्यैका दासी समेत्य
67 and seeing Peter warming himself, she looked at him, and said, "You were also with the Nazarene, Jesus."
तं विह्नितापं गृह्लन्तं विलोक्य तं सुनिरीक्ष्य बभाषे त्वमपि नासरतीययीशोः सङ्गिनाम् एको जन आसीः।
68 But he denied it, saying, "I neither know nor understand what you are saying." And he went out into the forecourt, and a rooster crowed.
किन्तु सोपह्नुत्य जगाद तमहं न वद्मि त्वं यत् कथयमि तदप्यहं न बुद्ध्ये। तदानीं पितरे चत्वरं गतवति कुेक्कुटो रुराव।
69 And the servant girl saw him, and began again to tell those who stood by, "This is one of them."
अथान्या दासी पितरं दृष्ट्वा समीपस्थान् जनान् जगाद अयं तेषामेको जनः।
70 But he again denied it. After a little while again those who stood by said to Peter, "You truly are one of them, for you are a Galilean, and your accent shows it."
ततः स द्वितीयवारम् अपह्नुतवान् पश्चात् तत्रस्था लोकाः पितरं प्रोचुस्त्वमवश्यं तेषामेको जनः यतस्त्वं गालीलीयो नर इति तवोच्चारणं प्रकाशयति।
71 But he began to curse, and to swear, "I do not know this man of whom you speak."
तदा स शपथाभिशापौ कृत्वा प्रोवाच यूयं कथां कथयथ तं नरं न जानेऽहं।
72 And immediately the rooster crowed the second time. Peter remembered the word, how that Jesus said to him, "Before the rooster crows twice, you will deny me three times." When he thought about that, he wept.
तदानीं द्वितीयवारं कुक्कुटो ऽरावीत्। कुक्कुटस्य द्वितीयरवात् पूर्व्वं त्वं मां वारत्रयम् अपह्नोष्यसि, इति यद्वाक्यं यीशुना समुदितं तत् तदा संस्मृत्य पितरो रोदितुम् आरभत।