< Luke 8 >
1 It happened soon afterwards, that he went about through cities and villages, proclaiming and bringing the good news of the kingdom of God. With him were the twelve,
अपरञ्च यीशु र्द्वादशभिः शिष्यैः सार्द्धं नानानगरेषु नानाग्रामेषु च गच्छन् इश्वरीयराजत्वस्य सुसंवादं प्रचारयितुं प्रारेभे।
2 and certain women who had been healed of evil spirits and infirmities: Mary who was called Magdalene, from whom seven demons had gone out;
तदा यस्याः सप्त भूता निरगच्छन् सा मग्दलीनीति विख्याता मरियम् हेरोद्राजस्य गृहाधिपतेः होषे र्भार्य्या योहना शूशाना
3 and Joanna, the wife of Chuza, Herod's steward; Susanna; and many others; who provided for them from their possessions.
प्रभृतयो या बह्व्यः स्त्रियः दुष्टभूतेभ्यो रोगेभ्यश्च मुक्ताः सत्यो निजविभूती र्व्ययित्वा तमसेवन्त, ताः सर्व्वास्तेन सार्द्धम् आसन्।
4 When a large crowd came together, and people from every city were coming to him, he spoke by a parable.
अनन्तरं नानानगरेभ्यो बहवो लोका आगत्य तस्य समीपेऽमिलन्, तदा स तेभ्य एकां दृष्टान्तकथां कथयामास। एकः कृषीबलो बीजानि वप्तुं बहिर्जगाम,
5 "The farmer went out to sow his seed. As he sowed, some fell along the road, and it was trampled under foot, and the birds of the sky devoured it.
ततो वपनकाले कतिपयानि बीजानि मार्गपार्श्वे पेतुः, ततस्तानि पदतलै र्दलितानि पक्षिभि र्भक्षितानि च।
6 Other seed fell on the rock, and as soon as it grew, it withered away, because it had no moisture.
कतिपयानि बीजानि पाषाणस्थले पतितानि यद्यपि तान्यङ्कुरितानि तथापि रसाभावात् शुशुषुः।
7 Other fell amid the thorns, and the thorns grew with it, and choked it.
कतिपयानि बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकिवनानि संवृद्ध्य तानि जग्रसुः।
8 Other fell into the good ground, and grew, and brought forth fruit one hundred times." As he said these things, he called out, "He who has ears to hear, let him hear."
तदन्यानि कतिपयबीजानि च भूम्यामुत्तमायां पेतुस्ततस्तान्यङ्कुरयित्वा शतगुणानि फलानि फेलुः। स इमा कथां कथयित्वा प्रोच्चैः प्रोवाच, यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।
9 Then his disciples asked him, "What does this parable mean?"
ततः परं शिष्यास्तं पप्रच्छुरस्य दृष्टान्तस्य किं तात्पर्य्यं?
10 He said, "To you it is given to know the mysteries of the kingdom of God, but to the rest in parables; that 'seeing they may not see, and hearing they may not understand.'
ततः स व्याजहार, ईश्वरीयराज्यस्य गुह्यानि ज्ञातुं युष्मभ्यमधिकारो दीयते किन्त्वन्ये यथा दृष्ट्वापि न पश्यन्ति श्रुत्वापि म बुध्यन्ते च तदर्थं तेषां पुरस्तात् ताः सर्व्वाः कथा दृष्टान्तेन कथ्यन्ते।
11 Now the parable is this: The seed is the word of God.
दृष्टान्तस्यास्याभिप्रायः, ईश्वरीयकथा बीजस्वरूपा।
12 Those along the road are those who hear, then the devil comes, and takes away the word from their heart, that they may not believe and be saved.
ये कथामात्रं शृण्वन्ति किन्तु पश्चाद् विश्वस्य यथा परित्राणं न प्राप्नुवन्ति तदाशयेन शैतानेत्य हृदयातृ तां कथाम् अपहरति त एव मार्गपार्श्वस्थभूमिस्वरूपाः।
13 Those on the rock are they who, when they hear, receive the word with joy; but these have no root, who believe for a while, then fall away in time of temptation.
ये कथं श्रुत्वा सानन्दं गृह्लन्ति किन्त्वबद्धमूलत्वात् स्वल्पकालमात्रं प्रतीत्य परीक्षाकाले भ्रश्यन्ति तएव पाषाणभूमिस्वरूपाः।
14 That which fell among the thorns, these are those who have heard, and as they go on their way they are choked with cares, riches, and pleasures of life, and bring no fruit to maturity.
ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।
15 That in the good ground, these are such as in an honest and good heart, having heard the word, hold it tightly, and bring forth fruit with patience.
किन्तु ये श्रुत्वा सरलैः शुद्धैश्चान्तःकरणैः कथां गृह्लन्ति धैर्य्यम् अवलम्ब्य फलान्युत्पादयन्ति च त एवोत्तममृत्स्वरूपाः।
16 "No one, when he has lit a lamp, covers it with a container, or puts it under a bed; but puts it on a stand, that those who enter in may see the light.
अपरञ्च प्रदीपं प्रज्वाल्य कोपि पात्रेण नाच्छादयति तथा खट्वाधोपि न स्थापयति, किन्तु दीपाधारोपर्य्येव स्थापयति, तस्मात् प्रवेशका दीप्तिं पश्यन्ति।
17 For nothing is hidden, that will not be revealed; nor anything secret, that will not be known and come to light.
यन्न प्रकाशयिष्यते तादृग् अप्रकाशितं वस्तु किमपि नास्ति यच्च न सुव्यक्तं प्रचारयिष्यते तादृग् गृप्तं वस्तु किमपि नास्ति।
18 So consider carefully how you listen. For whoever has, to him will be given; and whoever does not have, from him will be taken away even that which he thinks he has."
अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।
19 His mother and brothers came to him, and they could not come near him for the crowd.
अपरञ्च यीशो र्माता भ्रातरश्च तस्य समीपं जिगमिषवः
20 It was told him by some saying, "Your mother and your brothers stand outside, desiring to see you."
किन्तु जनतासम्बाधात् तत्सन्निधिं प्राप्तुं न शेकुः। तत्पश्चात् तव माता भ्रातरश्च त्वां साक्षात् चिकीर्षन्तो बहिस्तिष्ठनतीति वार्त्तायां तस्मै कथितायां
21 But he answered them, "My mother and my brothers are these who hear the word of God, and do it."
स प्रत्युवाच; ये जना ईश्वरस्य कथां श्रुत्वा तदनुरूपमाचरन्ति तएव मम माता भ्रातरश्च।
22 Now it happened on one of those days, that he entered into a boat, himself and his disciples, and he said to them, "Let us go over to the other side of the lake." So they launched out.
अनन्तरं एकदा यीशुः शिष्यैः सार्द्धं नावमारुह्य जगाद, आयात वयं ह्रदस्य पारं यामः, ततस्ते जग्मुः।
23 But as they sailed, he fell asleep. A wind storm came down on the lake, and they were taking on dangerous amounts of water.
तेषु नौकां वाहयत्सु स निदद्रौ;
24 So they came to him, and awoke him, saying, "Master, master, we are dying." And he awoke, and rebuked the wind and the raging of the water, and they ceased, and it was calm.
अथाकस्मात् प्रबलझञ्भ्शगमाद् ह्रदे नौकायां तरङ्गैराच्छन्नायां विपत् तान् जग्रास।तस्माद् यीशोरन्तिकं गत्वा हे गुरो हे गुरो प्राणा नो यान्तीति गदित्वा तं जागरयाम्बभूवुः।तदा स उत्थाय वायुं तरङ्गांश्च तर्जयामास तस्मादुभौ निवृत्य स्थिरौ बभूवतुः।
25 He said to them, "Where is your faith?" But they were terrified and astonished, saying to one another, "Who is this, then, that he commands even the winds and the water, and they obey him?"
स तान् बभाषे युष्माकं विश्वासः क? तस्मात्ते भीता विस्मिताश्च परस्परं जगदुः, अहो कीदृगयं मनुजः पवनं पानीयञ्चादिशति तदुभयं तदादेशं वहति।
26 They arrived at the country of the Gerasenes, which is opposite Galilee.
ततः परं गालील्प्रदेशस्य सम्मुखस्थगिदेरीयप्रदेशे नौकायां लगन्त्यां तटेऽवरोहमावाद्
27 And when he came out onto the land he was met by a certain man from the town who had demons. For a long time he had worn no clothes, and did not live in a house, but in the tombs.
बहुतिथकालं भूतग्रस्त एको मानुषः पुरादागत्य तं साक्षाच्चकार। स मनुषो वासो न परिदधत् गृहे च न वसन् केवलं श्मशानम् अध्युवास।
28 When he saw Jesus, he shouted, and fell down before him, and with a loud voice said, "What do I have to do with you, Jesus, you Son of the Most High God? I beg you, do not torment me."
स यीशुं दृष्ट्वैव चीच्छब्दं चकार तस्य सम्मुखे पतित्वा प्रोच्चैर्जगाद च, हे सर्व्वप्रधानेश्वरस्य पुत्र, मया सह तव कः सम्बन्धः? त्वयि विनयं करोमि मां मा यातय।
29 For Jesus was commanding the unclean spirit to come out of the man. For the unclean spirit had often seized the man. He was kept under guard, and bound with chains and fetters. Breaking the bands apart, he was driven by the demon into the desert.
यतः स तं मानुषं त्यक्त्वा यातुम् अमेध्यभूतम् आदिदेश; स भूतस्तं मानुषम् असकृद् दधार तस्माल्लोकाः शृङ्खलेन निगडेन च बबन्धुः; स तद् भंक्त्वा भूतवशत्वात् मध्येप्रान्तरं ययौ।
30 Jesus asked him, "What is your name?" He said, "Legion," for many demons had entered into him.
अनन्तरं यीशुस्तं पप्रच्छ तव किन्नाम? स उवाच, मम नाम बाहिनो यतो बहवो भूतास्तमाशिश्रियुः।
31 They pleaded with him that he would not command them to go into the abyss. (Abyssos )
अथ भूता विनयेन जगदुः, गभीरं गर्त्तं गन्तुं माज्ञापयास्मान्। (Abyssos )
32 Now there was there a herd of many pigs feeding on the mountain, and they begged him that he would allow them to enter into those. He allowed them.
तदा पर्व्वतोपरि वराहव्रजश्चरति तस्माद् भूता विनयेन प्रोचुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् अनुजानीहि; ततः सोनुजज्ञौ।
33 The demons came out from the man, and entered into the pigs, and the herd rushed down the steep bank into the lake, and were drowned.
ततः परं भूतास्तं मानुषं विहाय वराहव्रजम् आशिश्रियुः वराहव्रजाश्च तत्क्षणात् कटकेन धावन्तो ह्रदे प्राणान् विजृहुः।
34 When those who fed them saw what had happened, they fled, and told it in the city and in the country.
तद् दृष्ट्वा शूकररक्षकाः पलायमाना नगरं ग्रामञ्च गत्वा तत्सर्व्ववृत्तान्तं कथयामासुः।
35 Then people went out to see what had happened. They came to Jesus, and found the man from whom the demons had gone out, sitting at Jesus' feet, clothed and in his right mind; and they were afraid.
ततः किं वृत्तम् एतद्दर्शनार्थं लोका निर्गत्य यीशोः समीपं ययुः, तं मानुषं त्यक्तभूतं परिहितवस्त्रं स्वस्थमानुषवद् यीशोश्चरणसन्निधौ सूपविशन्तं विलोक्य बिभ्युः।
36 Those who saw it told them how he who had been possessed by demons was healed.
ये लोकास्तस्य भूतग्रस्तस्य स्वास्थ्यकरणं ददृशुस्ते तेभ्यः सर्व्ववृत्तान्तं कथयामासुः।
37 All the people of the surrounding region of the Geresenes asked him to leave them, for they were very much afraid; and he entered into the boat and returned.
तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।
38 But the man from whom the demons had gone out begged him that he might go with him, but Jesus sent him away, saying,
तदानीं त्यक्तभूतमनुजस्तेन सह स्थातुं प्रार्थयाञ्चक्रे
39 "Return to your house, and declare what great things God has done for you." He went his way, proclaiming throughout the whole city what great things Jesus had done for him.
किन्तु तदर्थम् ईश्वरः कीदृङ्महाकर्म्म कृतवान् इति निवेशनं गत्वा विज्ञापय, यीशुः कथामेतां कथयित्वा तं विससर्ज। ततः स व्रजित्वा यीशुस्तदर्थं यन्महाकर्म्म चकार तत् पुरस्य सर्व्वत्र प्रकाशयितुं प्रारेभे।
40 When Jesus returned, the crowd welcomed him, for they were all waiting for him.
अथ यीशौ परावृत्यागते लोकास्तं आदरेण जगृहु र्यस्मात्ते सर्व्वे तमपेक्षाञ्चक्रिरे।
41 And look, there came a man named Jairus, and he was a ruler of the synagogue. He fell down at Jesus' feet, and pleaded with him to come into his house,
तदनन्तरं यायीर्नाम्नो भजनगेहस्यैकोधिप आगत्य यीशोश्चरणयोः पतित्वा स्वनिवेशनागमनार्थं तस्मिन् विनयं चकार,
42 for he had an only daughter, about twelve years of age, and she was dying. But as he went, the crowds pressed against him.
यतस्तस्य द्वादशवर्षवयस्का कन्यैकासीत् सा मृतकल्पाभवत्। ततस्तस्य गमनकाले मार्गे लोकानां महान् समागमो बभूव।
43 A woman who had a flow of blood for twelve years (who had spent all her living on physicians) and could not be healed by any,
द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।
44 came behind him, and touched the fringe of his garment, and immediately the flow of her blood stopped.
तस्मात् तत्क्षणात् तस्या रक्तस्रावो रुद्धः।
45 Jesus said, "Who touched me?" When all denied it, Peter and those with him said, "Master, the crowds press and jostle you."
तदानीं यीशुरवदत् केनाहं स्पृष्टः? ततोऽनेकैरनङ्गीकृते पितरस्तस्य सङ्गिनश्चावदन्, हे गुरो लोका निकटस्थाः सन्तस्तव देहे घर्षयन्ति, तथापि केनाहं स्पृष्टइति भवान् कुतः पृच्छति?
46 But Jesus said, "Someone did touch me, for I perceived that power has gone out of me."
यीशुः कथयामास, केनाप्यहं स्पृष्टो, यतो मत्तः शक्ति र्निर्गतेति मया निश्चितमज्ञायि।
47 When the woman saw that she was not hidden, she came trembling, and falling down before him declared to him in the presence of all the people the reason why she had touched him, and how she was healed immediately.
तदा सा नारी स्वयं न गुप्तेति विदित्वा कम्पमाना सती तस्य सम्मुखे पपात; येन निमित्तेन तं पस्पर्श स्पर्शमात्राच्च येन प्रकारेण स्वस्थाभवत् तत् सर्व्वं तस्य साक्षादाचख्यौ।
48 He said to her, "Daughter, your faith has made you well. Go in peace."
ततः स तां जगाद हे कन्ये सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थाम् अकार्षीत् त्वं क्षेमेण याहि।
49 While he still spoke, one from the ruler of the synagogue's house came, saying to him, "Your daughter is dead. Do not trouble the Teacher."
यीशोरेतद्वाक्यवदनकाले तस्याधिपते र्निवेशनात् कश्चिल्लोक आगत्य तं बभाषे, तव कन्या मृता गुरुं मा क्लिशान।
50 But Jesus hearing it, answered him, "Do not be afraid. Only believe, and she will be healed."
किन्तु यीशुस्तदाकर्ण्याधिपतिं व्याजहार, मा भैषीः केवलं विश्वसिहि तस्मात् सा जीविष्यति।
51 When he came to the house, he did not allow anyone to enter in with him, except Peter, John, James, the father of the child, and her mother.
अथ तस्य निवेशने प्राप्ते स पितरं योहनं याकूबञ्च कन्याया मातरं पितरञ्च विना, अन्यं कञ्चन प्रवेष्टुं वारयामास।
52 All were weeping and mourning her, but he said, "Do not weep. She is not dead, but sleeping."
अपरञ्च ये रुदन्ति विलपन्ति च तान् सर्व्वान् जनान् उवाच, यूयं मा रोदिष्ट कन्या न मृता निद्राति।
53 They were ridiculing him, knowing that she was dead.
किन्तु सा निश्चितं मृतेति ज्ञात्वा ते तमुपजहसुः।
54 But he, taking her by the hand, called, saying, "Child, arise."
पश्चात् स सर्व्वान् बहिः कृत्वा कन्यायाः करौ धृत्वाजुहुवे, हे कन्ये त्वमुत्तिष्ठ,
55 Her spirit returned, and she rose up immediately. He commanded that something be given to her to eat.
तस्मात् तस्याः प्राणेषु पुनरागतेषु सा तत्क्षणाद् उत्तस्यौ। तदानीं तस्यै किञ्चिद् भक्ष्यं दातुम् आदिदेश।
56 Her parents were amazed, but he commanded them to tell no one what had been done.
ततस्तस्याः पितरौ विस्मयं गतौ किन्तु स तावादिदेश घटनाया एतस्याः कथां कस्मैचिदपि मा कथयतं।