< Acts 1 >

1 The former account, indeed, I made concerning all things, O Theophilus, that Jesus began both to do and to teach,
हे थियफिल, यीशुः स्वमनोनीतान् प्रेरितान् पवित्रेणात्मना समादिश्य यस्मिन् दिने स्वर्गमारोहत् यां यां क्रियामकरोत् यद्यद् उपादिशच्च तानि सर्व्वाणि पूर्व्वं मया लिखितानि।
2 until the day in which, having given command through the Holy Spirit to the apostles whom He chose out, He was taken up,
स स्वनिधनदुःखभोगात् परम् अनेकप्रत्ययक्षप्रमाणौः स्वं सजीवं दर्शयित्वा
3 to whom He also presented Himself alive after His suffering, in many certain proofs, being seen by them through forty days, and speaking the things concerning the Kingdom of God.
चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।
4 And being assembled together with them, He commanded them not to depart from Jerusalem, but to wait for the promise of the Father, “Which you heard from Me;
अनन्तरं तेषां सभां कृत्वा इत्याज्ञापयत्, यूयं यिरूशालमोऽन्यत्र गमनमकृत्वा यस्तिन् पित्राङ्गीकृते मम वदनात् कथा अशृणुत तत्प्राप्तिम् अपेक्ष्य तिष्ठत।
5 because John, indeed, immersed in water, but you will be immersed in the Holy Spirit not many days after these.”
योहन् जले मज्जितावान् किन्त्वल्पदिनमध्ये यूयं पवित्र आत्मनि मज्जिता भविष्यथ।
6 They, therefore, indeed, having come together, were questioning Him, saying, “Lord, do You at this time restore the kingdom to Israel?”
पश्चात् ते सर्व्वे मिलित्वा तम् अपृच्छन् हे प्रभो भवान् किमिदानीं पुनरपि राज्यम् इस्रायेलीयलोकानां करेषु समर्पयिष्यति?
7 And He said to them, “It is not yours to know times or seasons that the Father appointed in His own authority;
ततः सोवदत् यान् सर्व्वान् कालान् समयांश्च पिता स्ववशेऽस्थापयत् तान् ज्ञातृं युष्माकम् अधिकारो न जायते।
8 but you will receive power at the coming of the Holy Spirit on you, and you will be witnesses for Me both in Jerusalem, and in all Judea and Samaria, and to the end of the earth.”
किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।
9 And having said these things—they beholding—He was taken up, and a cloud received Him up from their sight;
इति वाक्यमुक्त्वा स तेषां समक्षं स्वर्गं नीतोऽभवत्, ततो मेघमारुह्य तेषां दृष्टेरगोचरोऽभवत्।
10 and as they were looking steadfastly to the sky in His going on, then, behold, two men stood by them in white clothing,
यस्मिन् समये ते विहायसं प्रत्यनन्यदृष्ट्या तस्य तादृशम् ऊर्द्व्वगमनम् अपश्यन् तस्मिन्नेव समये शुक्लवस्त्रौ द्वौ जनौ तेषां सन्निधौ दण्डायमानौ कथितवन्तौ,
11 who also said, “Men, Galileans, why do you stand gazing into the sky? This Jesus who was received up from you into Heaven, will so come in what manner you saw Him going on to Heaven.”
हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति।
12 Then they returned to Jerusalem from [that] called the Mount of Olives, that is near Jerusalem, a Sabbath’s journey;
ततः परं ते जैतुननाम्नः पर्व्वताद् विश्रामवारस्य पथः परिमाणम् अर्थात् प्रायेणार्द्धक्रोशं दुरस्थं यिरूशालम्नगरं परावृत्यागच्छन्।
13 and when they came in, they went up into the upper room, where were abiding both Peter, and James, and John, and Andrew, Philip, and Thomas, Bartholomew, and Matthew, James, of Alphaeus, and Simon the Zealot, and Judas, of James;
नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।
14 these were all continuing with one accord in prayer and supplication, with women, and Mary the mother of Jesus, and with His brothers.
पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त।
15 And in these days, Peter having risen up in the midst of the disciples, said (also the multitude of the names at the same place was, as it were, one hundred and twenty),
तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
16 “Men, brothers, it was necessary [for] this Writing to be fulfilled that the Holy Spirit spoke beforehand through the mouth of David, concerning Judas, who became guide to those who took Jesus,
हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।
17 because he was numbered among us, and received the share in this ministry.
स जनोऽस्माकं मध्यवर्त्ती सन् अस्याः सेवाया अंशम् अलभत।
18 (This one, indeed, then, purchased a field out of the reward of unrighteousness, and falling headlong, burst apart in the midst, and all his bowels gushed forth,
तदनन्तरं कुकर्म्मणा लब्धं यन्मूल्यं तेन क्षेत्रमेकं क्रीतम् अपरं तस्मिन् अधोमुखे भृमौ पतिते सति तस्योदरस्य विदीर्णत्वात् सर्व्वा नाड्यो निरगच्छन्।
19 and it became known to all those dwelling in Jerusalem, insomuch that this place is called, in their proper dialect, Aceldama, that is, Field of Blood.)
एतां कथां यिरूशालम्निवासिनः सर्व्वे लोका विदान्ति; तेषां निजभाषया तत्क्षेत्रञ्च हकल्दामा, अर्थात् रक्तक्षेत्रमिति विख्यातमास्ते।
20 For it has been written in [the] Scroll of Psalms: Let his lodging-place become desolate, and let no one be dwelling in it, and let another take his oversight.
अन्यच्च, निकेतनं तदीयन्तु शुन्यमेव भविष्यति। तस्य दूष्ये निवासार्थं कोपि स्थास्यति नैव हि। अन्य एव जनस्तस्य पदं संप्राप्स्यति ध्रुवं। इत्थं गीतपुस्तके लिखितमास्ते।
21 It is necessary, therefore, of the men who went with us during all the time in which the Lord Jesus went in and went out among us,
अतो योहनो मज्जनम् आरभ्यास्माकं समीपात् प्रभो र्यीशोः स्वर्गारोहणदिनं यावत् सोस्माकं मध्ये यावन्ति दिनानि यापितवान्
22 beginning from the immersion of John, to the day in which He was received up from us, one of these to become with us a witness of His resurrection.”
तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं।
23 And they set two, Joseph called Barsabas, who was surnamed Justus, and Matthias,
अतो यस्य रूढि र्युष्टो यं बर्शब्बेत्युक्त्वाहूयन्ति स यूषफ् मतथिश्च द्वावेतौ पृथक् कृत्वा त ईश्वरस्य सन्निधौ प्रार्य्य कथितवन्तः,
24 and having prayed, they said, “You, LORD, who are knowing the heart of all, show which one You chose of these two,
हे सर्व्वान्तर्य्यामिन् परमेश्वर, यिहूदाः सेवनप्रेरितत्वपदच्युतः
25 to receive the share of this ministry and apostleship, from which Judas, by transgression, fell, to go on to his proper place”;
सन् निजस्थानम् अगच्छत्, तत्पदं लब्धुम् एनयो र्जनयो र्मध्ये भवता कोऽभिरुचितस्तदस्मान् दर्श्यतां।
26 and they gave their lots, and the lot fell on Matthias, and he was numbered with the eleven apostles.
ततो गुटिकापाटे कृते मतथिर्निरचीयत तस्मात् सोन्येषाम् एकादशानां प्ररितानां मध्ये गणितोभवत्।

< Acts 1 >