< 1 Timothy 6 >

1 As many as are servants under a yoke, let them reckon their own masters worthy of all honor, that evil may not be spoken of the Name of God and the teaching;
यावन्तो लोका युगधारिणो दासाः सन्ति ते स्वस्वस्वामिनं पूर्णसमादरयोग्यं मन्यन्तां नो चेद् ईश्वरस्य नाम्न उपदेशस्य च निन्दा सम्भविष्यति।
2 and those having believing masters, do not let them slight [them], because they are brothers, but rather let them serve, because they are steadfast and beloved, who are partaking of the benefit. Be teaching and exhorting these things;
येषाञ्च स्वामिनो विश्वासिनः भवन्ति तैस्ते भ्रातृत्वात् नावज्ञेयाः किन्तु ते कर्म्मफलभोगिनो विश्वासिनः प्रियाश्च भवन्तीति हेतोः सेवनीया एव, त्वम् एतानि शिक्षय समुपदिश च।
3 if anyone be teaching otherwise, and does not consent to sound words—those of our Lord Jesus Christ—and to the teaching according to piety,
यः कश्चिद् इतरशिक्षां करोति, अस्माकं प्रभो र्यीशुख्रीष्टस्य हितवाक्यानीश्वरभक्ते र्योग्यां शिक्षाञ्च न स्वीकरोति
4 he is proud, knowing nothing, but unhealthy about questions and word-striving, out of which come envy, strife, slanders, evil-surmisings,
स दर्पध्मातः सर्व्वथा ज्ञानहीनश्च विवादै र्वाग्युद्धैश्च रोगयुक्तश्च भवति।
5 wranglings of men wholly corrupted in mind, and destitute of the truth, supposing the piety to be gain; depart from such;
तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज्ञानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ।
6 but it is great gain—the piety with contentment;
संयतेच्छया युक्ता येश्वरभक्तिः सा महालाभोपायो भवतीति सत्यं।
7 for we brought nothing into the world—because neither are we able to carry out anything;
एतज्जगत्प्रवेशनकालेऽस्माभिः किमपि नानायि तत्तयजनकालेऽपि किमपि नेतुं न शक्ष्यत इति निश्चितं।
8 but having food and raiment—with these we will suffice ourselves;
अतएव खाद्यान्याच्छादनानि च प्राप्यास्माभिः सन्तुष्टै र्भवितव्यं।
9 and those intending to be rich fall into temptation and a snare, and many desires, foolish and hurtful, that sink men into ruin and destruction,
ये तु धनिनो भवितुं चेष्टन्ते ते परीक्षायाम् उन्माथे पतन्ति ये चाभिलाषा मानवान् विनाशे नरके च मज्जयन्ति तादृशेष्वज्ञानाहिताभिलाषेष्वपि पतन्ति।
10 for the love of money is a root of all the evils, which certain [ones] longing for went astray from the faith, and pierced themselves through with many sorrows;
यतोऽर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्।
11 and you, O man of God, flee these things, and pursue righteousness, piety, faith, love, endurance, meekness.
हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।
12 Be striving the good strife of the faith; be laying hold on the continuous life to which you also were called, and did profess the right profession before many witnesses. (aiōnios g166)
विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्। (aiōnios g166)
13 I charge you, before God, who is making all things alive, and of Christ Jesus, who testified the right profession before Pontius Pilate,
अपरं सर्व्वेषां जीवयितुरीश्वरस्य साक्षाद् यश्च ख्रीष्टो यीशुः पन्तीयपीलातस्य समक्षम् उत्तमां प्रतिज्ञां स्वीकृतवान् तस्य साक्षाद् अहं त्वाम् इदम् आज्ञापयामि।
14 that you keep the command unspotted, unblameable, until the appearing of our Lord Jesus Christ,
ईश्वरेण स्वसमये प्रकाशितव्यम् अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं यावत् त्वया निष्कलङ्कत्वेन निर्द्दोषत्वेन च विधी रक्ष्यतां।
15 which He will show in His own times—the blessed and only sovereign, the King of the kings and Lord of the lords,
स ईश्वरः सच्चिदानन्दः, अद्वितीयसम्राट्, राज्ञां राजा, प्रभूनां प्रभुः,
16 having immortality alone, dwelling in unapproachable light, whom no one of men saw, nor is able to see, to whom [is] honor and perpetual might! Amen. (aiōnios g166)
अमरताया अद्वितीय आकरः, अगम्यतेजोनिवासी, मर्त्त्यानां केनापि न दृष्टः केनापि न दृश्यश्च। तस्य गौरवपराक्रमौ सदातनौ भूयास्तां। आमेन्। (aiōnios g166)
17 Charge those rich in the present age not to be high-minded, nor to hope in the uncertainty of riches, but in the living God, who is giving to us all things richly for enjoyment— (aiōn g165)
इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता (aiōn g165)
18 to do good, to be rich in good works, to be ready to impart, willing to communicate,
योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु,
19 treasuring up to themselves a right foundation for the time to come, that they may lay hold on [that which is] truly life.
यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।
20 O Timotheus, guard the thing entrusted, avoiding the profane vain-words and opposition of the falsely-named knowledge,
हे तीमथिय, त्वम् उपनिधिं गोपय काल्पनिकविद्याया अपवित्रं प्रलापं विरोधोक्तिञ्च त्यज च,
21 which certain [ones] professing—swerved concerning the faith. The grace [is] with you! Amen.
यतः कतिपया लोकास्तां विद्यामवलम्ब्य विश्वासाद् भ्रष्टा अभवन। प्रसादस्तव सहायो भूयात्। आमेन्।

< 1 Timothy 6 >