< Galatians 1 >
1 PAUL, an apostle, (not of men, neither by man, but by Jesus Christ, and God the Father, who raised him from the dead; )
मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं
2 And all the brethren which are with me, unto the churches of Galatia:
मत्सहवर्त्तिनो भ्रातरश्च वयं गालातीयदेशस्थाः समितीः प्रति पत्रं लिखामः।
3 Grace be to you and peace from God the Father, and from our Lord Jesus Christ,
पित्रेश्वरेणास्मांक प्रभुना यीशुना ख्रीष्टेन च युष्मभ्यम् अनुग्रहः शान्तिश्च दीयतां।
4 Who gave himself for our sins, that he might deliver us from this present evil world, according to the will of God and our Father: (aiōn )
अस्माकं तातेश्वरेस्येच्छानुसारेण वर्त्तमानात् कुत्सितसंसाराद् अस्मान् निस्तारयितुं यो (aiōn )
5 To whom be glory for ever and ever. Amen. (aiōn )
यीशुरस्माकं पापहेतोरात्मोत्सर्गं कृतवान् स सर्व्वदा धन्यो भूयात्। तथास्तु। (aiōn )
6 I marvel that ye are so soon removed from him that called you into the grace of Christ unto another gospel:
ख्रीष्टस्यानुग्रहेण यो युष्मान् आहूतवान् तस्मान्निवृत्य यूयम् अतितूर्णम् अन्यं सुसंवादम् अन्ववर्त्तत तत्राहं विस्मयं मन्ये।
7 Which is not another; but there be some that trouble you, and would pervert the gospel of Christ.
सोऽन्यसुसंवादः सुसंवादो नहि किन्तु केचित् मानवा युष्मान् चञ्चलीकुर्व्वन्ति ख्रीष्टीयसुसंवादस्य विपर्य्ययं कर्त्तुं चेष्टन्ते च।
8 But though we, or an angel from heaven, preach any other gospel unto you than that which we have preached unto you, let him be accursed.
युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु।
9 As we said before, so say I now again, If any man preach any other gospel unto you than that ye have received, let him be accursed.
पूर्व्वं यद्वद् अकथयाम, इदानीमहं पुनस्तद्वत् कथयामि यूयं यं सुसंवादं गृहीतवन्तस्तस्माद् अन्यो येन केनचिद् युष्मत्सन्निधौ घोष्यते स शप्तो भवतु।
10 For do I now persuade men, or God? or do I seek to please men? for if I yet pleased men, I should not be the servant of Christ.
साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।
11 But I certify you, brethren, that the gospel which was preached of me is not after man.
हे भ्रातरः, मया यः सुसंवादो घोषितः स मानुषान्न लब्धस्तदहं युष्मान् ज्ञापयामि।
12 For I neither received it of man, neither was I taught it, but by the revelation of Jesus Christ.
अहं कस्माच्चित् मनुष्यात् तं न गृहीतवान् न वा शिक्षितवान् केवलं यीशोः ख्रीष्टस्य प्रकाशनादेव।
13 For ye have heard of my conversation in time past in the Jews’ religion, how that beyond measure I persecuted the church of God, and wasted it:
पुरा यिहूदिमताचारी यदाहम् आसं तदा यादृशम् आचरणम् अकरवम् ईश्वरस्य समितिं प्रत्यतीवोपद्रवं कुर्व्वन् यादृक् तां व्यनाशयं तदवश्यं श्रुतं युष्माभिः।
14 And profited in the Jews’ religion above many my equals in mine own nation, being more exceedingly zealous of the traditions of my fathers.
अपरञ्च पूर्व्वपुरुषपरम्परागतेषु वाक्येष्वन्यापेक्षातीवासक्तः सन् अहं यिहूदिधर्म्मते मम समवयस्कान् बहून् स्वजातीयान् अत्यशयि।
15 But when it pleased God, who separated me from my mother’s womb, and called me by his grace,
किञ्च य ईश्वरो मातृगर्भस्थं मां पृथक् कृत्वा स्वीयानुग्रहेणाहूतवान्
16 To reveal his Son in me, that I might preach him among the heathen; immediately I conferred not with flesh and blood:
स यदा मयि स्वपुत्रं प्रकाशितुं भिन्नदेशीयानां समीपे भया तं घोषयितुञ्चाभ्यलषत् तदाहं क्रव्यशोणिताभ्यां सह न मन्त्रयित्वा
17 Neither went I up to Jerusalem to them which were apostles before me; but I went into Arabia, and returned again unto Damascus.
पूर्व्वनियुक्तानां प्रेरितानां समीपं यिरूशालमं न गत्वारवदेशं गतवान् पश्चात् तत्स्थानाद् दम्मेषकनगरं परावृत्यागतवान्।
18 Then after three years I went up to Jerusalem to see Peter, and abode with him fifteen days.
ततः परं वर्षत्रये व्यतीतेऽहं पितरं सम्भाषितुं यिरूशालमं गत्वा पञ्चदशदिनानि तेन सार्द्धम् अतिष्ठं।
19 But other of the apostles saw I none, save James the Lord’s brother.
किन्तु तं प्रभो र्भ्रातरं याकूबञ्च विना प्रेरितानां नान्यं कमप्यपश्यं।
20 Now the things which I write unto you, behold, before God, I lie not.
यान्येतानि वाक्यानि मया लिख्यन्ते तान्यनृतानि न सन्ति तद् ईश्वरो जानाति।
21 Afterwards I came into the regions of Syria and Cilicia;
ततः परम् अहं सुरियां किलिकियाञ्च देशौ गतवान्।
22 And was unknown by face unto the churches of Judæa which were in Christ:
तदानीं यिहूदादेशस्थानां ख्रीष्टस्य समितीनां लोकाः साक्षात् मम परिचयमप्राप्य केवलं जनश्रुतिमिमां लब्धवन्तः,
23 But they had heard only, That he which persecuted us in times past now preacheth the faith which once he destroyed.
यो जनः पूर्व्वम् अस्मान् प्रत्युपद्रवमकरोत् स तदा यं धर्म्ममनाशयत् तमेवेदानीं प्रचारयतीति।
24 And they glorified God in me.
तस्मात् ते मामधीश्वरं धन्यमवदन्।