< 2 John 1 >
1 THE presbyter to the elect lady and her children, whom I love in the truth; and not I only, but also all who have known the truth:
हे अभिरुचिते कुरिये, त्वां तव पुत्रांश्च प्रति प्राचीनोऽहं पत्रं लिखामि।
2 because of the truth which abideth in us, and shall be with us for ever: (aiōn )
सत्यमताद् युष्मासु मम प्रेमास्ति केवलं मम नहि किन्तु सत्यमतज्ञानां सर्व्वेषामेव। यतः सत्यमतम् अस्मासु तिष्ठत्यनन्तकालं यावच्चास्मासु स्थास्यति। (aiōn )
3 grace, mercy, peace be with you from God the Father, and from the Lord Jesus Christ, the Son of the Father, in truth and love.
पितुरीश्वरात् तत्पितुः पुत्रात् प्रभो र्यीशुख्रीष्टाच्च प्राप्यो ऽनुग्रहः कृपा शान्तिश्च सत्यताप्रेमभ्यां सार्द्धं युष्मान् अधितिष्ठतु।
4 I rejoiced greatly that I found thy children walking in truth, as we have received commandment from the Father.
वयं पितृतो याम् आज्ञां प्राप्तवन्तस्तदनुसारेण तव केचिद् आत्मजाः सत्यमतम् आचरन्त्येतस्य प्रमाणं प्राप्याहं भृशम् आनन्दितवान्।
5 And now I beseech thee, lady, not as writing to thee a new commandment, but that which we have had from the beginning, that we should love one another.
साम्प्रतञ्च हे कुरिये, नवीनां काञ्चिद् आज्ञां न लिखन्नहम् आदितो लब्धाम् आज्ञां लिखन् त्वाम् इदं विनये यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।
6 And this is love, that we should walk after his commandments. This is the commandment, as ye have heard from the beginning, That ye should walk in it.
अपरं प्रेमैतेन प्रकाशते यद् वयं तस्याज्ञा आचरेम। आदितो युष्माभि र्या श्रुता सेयम् आज्ञा सा च युष्माभिराचरितव्या।
7 For many deceivers are gone out into the world, who do not confess Jesus the Messiah as come in the flesh. Such a one is a deceiver and an antichrist.
यतो बहवः प्रवञ्चका जगत् प्रविश्य यीशुख्रीष्टो नरावतारो भूत्वागत एतत् नाङ्गीकुर्व्वन्ति स एव प्रवञ्चकः ख्रीष्टारिश्चास्ति।
8 Take heed to yourselves that we lose not the things which we have wrought, but receive a full reward.
अस्माकं श्रमो यत् पण्डश्रमो न भवेत् किन्तु सम्पूर्णं वेतनमस्माभि र्लभ्येत तदर्थं स्वानधि सावधाना भवतः।
9 Every one that transgresseth and abideth not in the doctrine of Christ, hath not God: he that abideth in the doctrine of Christ, this man holdeth both the Father and the Son.
यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज्ञायां यस्तिष्ठति स पितरं पुत्रञ्च धारयति।
10 If any person come unto you, and bring not this doctrine, receive him not into the house, nor say to him, Welcome.
यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव मङ्गलं भूयादिति वागपि तस्मै न कथ्यतां।
11 He that biddeth him welcome, takes part in his wicked works.
यतस्तव मङ्गलं भूयादिति वाचं यः कश्चित् तस्मै कथयति स तस्य दुष्कर्म्मणाम् अंशी भवति।
12 Having many things to write unto you, I would not do it with paper and ink; but I hope to come unto you, and speak mouth to mouth, that our joy may be complete.
युष्मान् प्रति मया बहूनि लेखितव्यानि किन्तु पत्रमसीभ्यां तत् कर्त्तुं नेच्छामि, यतो ऽस्माकम् आनन्दो यथा सम्पूर्णो भविष्यति तथा युष्मत्समीपमुपस्थायाहं सम्मुखीभूय युष्माभिः सम्भाषिष्य इति प्रत्याशा ममास्ते।
13 The children of thy elect sister salute thee. Amen.
तवाभिरुचिताया भगिन्या बालकास्त्वां नमस्कारं ज्ञापयन्ति। आमेन्।