< Acts 25 >

1 When Festus was then come into the prouince, after three dayes he went vp from Caesarea vnto Hierusalem.
अनन्तरं फीष्टो निजराज्यम् आगत्य दिनत्रयात् परं कैसरियातो यिरूशालम्नगरम् आगमत्।
2 Then the high Priest, and the chiefe of the Iewes appeared before him against Paul: and they besought him,
तदा महायाजको यिहूदीयानां प्रधानलोकाश्च तस्य समक्षं पौलम् अपावदन्त।
3 And desired fauour against him, that hee would send for him to Hierusalem: and they layd waite to kill him by the way.
भवान् तं यिरूशालमम् आनेतुम् आज्ञापयत्विति विनीय ते तस्माद् अनुग्रहं वाञ्छितवन्तः।
4 But Festus answered, that Paul should bee kept at Caesarea, and that he himselfe would shortly depart thither.
यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि।
5 Let them therefore, saide he, which among you are able, come downe with vs: and if there be any wickednes in the man, let them accuse him.
ततस्तस्य मानुषस्य यदि कश्चिद् अपराधस्तिष्ठति तर्हि युष्माकं ये शक्नुवन्ति ते मया सह तत्र गत्वा तमपवदन्तु स एतां कथां कथितवान्।
6 Now when he had taried among them no more then ten dayes, hee went downe to Caesarea, and the next day sate in the iudgement seat, and commanded Paul to be brought.
दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्।
7 And when hee was come, the Iewes which were come from Hierusalem, stoode about him and layd many and grieuous complaints against Paul, whereof they could make no plaine proofe,
पौले समुपस्थिते सति यिरूशालम्नगराद् आगता यिहूदीयलोकास्तं चतुर्दिशि संवेष्ट्य तस्य विरुद्धं बहून् महादोषान् उत्थापितवन्तः किन्तु तेषां किमपि प्रमाणं दातुं न शक्नुवन्तः।
8 Forasmuch as he answered, that he had neither offended any thing against the lawe of the Iewes, neither against ye temple, nor against Caesar.
ततः पौलः स्वस्मिन् उत्तरमिदम् उदितवान्, यिहूदीयानां व्यवस्थाया मन्दिरस्य कैसरस्य वा प्रतिकूलं किमपि कर्म्म नाहं कृतवान्।
9 Yet Festus willing to get fauour of the Iewes, answered Paul and saide, Wilt thou goe vp to Hierusalem, and there be iudged of these things before mee?
किन्तु फीष्टो यिहूदीयान् सन्तुष्टान् कर्त्तुम् अभिलषन् पौलम् अभाषत त्वं किं यिरूशालमं गत्वास्मिन् अभियोगे मम साक्षाद् विचारितो भविष्यसि?
10 Then said Paul, I stand at Caesars iudgment seate, where I ought to be iudged: to the Iewes I haue done no wrong, as thou very well knowest.
ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति।
11 For if I haue done wrong, or committed any thing worthie of death, I refuse not to die: but if there be none of these things whereof they accuse me, no man, to pleasure them, can deliuer me to them: I appeale vnto Caesar.
कञ्चिदपराधं किञ्चन वधार्हं कर्म्म वा यद्यहम् अकरिष्यं तर्हि प्राणहननदण्डमपि भोक्तुम् उद्यतोऽभविष्यं, किन्तु ते मम समपवादं कुर्व्वन्ति स यदि कल्पितमात्रो भवति तर्हि तेषां करेषु मां समर्पयितुं कस्याप्यधिकारो नास्ति, कैसरस्य निकटे मम विचारो भवतु।
12 Then when Festus had spoken with the Council, hee answered, Hast thou appealed vnto Caesar? vnto Caesar shalt thou goe.
तदा फीष्टो मन्त्रिभिः सार्द्धं संमन्त्र्य पौलाय कथितवान्, कैसरस्य निकटे किं तव विचारो भविष्यति? कैसरस्य समीपं गमिष्यसि।
13 And after certaine dayes, King Agrippa and Bernice came downe to Caesarea to salute Festus.
कियद्दिनेभ्यः परम् आग्रिप्पराजा बर्णीकी च फीष्टं साक्षात् कर्त्तुं कैसरियानगरम् आगतवन्तौ।
14 And when they had remained there many dayes, Festus declared Pauls cause vnto the King, saying, There is a certaine man left in prison by Felix,
तदा तौ बहुदिनानि तत्र स्थितौ ततः फीष्टस्तं राजानं पौलस्य कथां विज्ञाप्य कथयितुम् आरभत पौलनामानम् एकं बन्दि फीलिक्षो बद्धं संस्थाप्य गतवान्।
15 Of whom when I came to Hierusalem, the high Priestes and Elders of the Iewes informed me, and desired to haue iudgement against him.
यिरूशालमि मम स्थितिकाले महायाजको यिहूदीयानां प्राचीनलोकाश्च तम् अपोद्य तम्प्रति दण्डाज्ञां प्रार्थयन्त।
16 To whome I answered, that it is not the maner of the Romanes for fauour to deliuer any man to the death, before that hee which is accused, haue the accusers before him, and haue place to defend himselfe, concerning the crime.
ततोहम् इत्युत्तरम् अवदं यावद् अपोदितो जनः स्वापवादकान् साक्षात् कृत्वा स्वस्मिन् योऽपराध आरोपितस्तस्य प्रत्युत्तरं दातुं सुयोगं न प्राप्नोति, तावत्कालं कस्यापि मानुषस्य प्राणनाशाज्ञापनं रोमिलोकानां रीति र्नहि।
17 Therefore when they were come hither, without delay the day following I sate on the iudgement seate, and commanded the man to be brought foorth.
ततस्तेष्वत्रागतेषु परस्मिन् दिवसेऽहम् अविलम्बं विचारासन उपविश्य तं मानुषम् आनेतुम् आज्ञापयम्।
18 Against whom when the accusers stood vp, they brought no crime of such things as I supposed:
तदनन्तरं तस्यापवादका उपस्थाय यादृशम् अहं चिन्तितवान् तादृशं कञ्चन महापवादं नोत्थाप्य
19 But had certaine questions against him of their owne superstition, and of one Iesus which was dead, whom Paul affirmed to be aliue.
स्वेषां मते तथा पौलो यं सजीवं वदति तस्मिन् यीशुनामनि मृतजने च तस्य विरुद्धं कथितवन्तः।
20 And because I doubted of such maner of question, I asked him whether he would goe to Hierusalem, and there be iudged of these things.
ततोहं तादृग्विचारे संशयानः सन् कथितवान् त्वं यिरूशालमं गत्वा किं तत्र विचारितो भवितुम् इच्छसि?
21 But because he appealed to be reserued to the examination of Augustus, I commanded him to be kept, till I mght send him to Cesar.
तदा पौलो महाराजस्य निकटे विचारितो भवितुं प्रार्थयत, तस्माद् यावत्कालं तं कैसरस्य समीपं प्रेषयितुं न शक्नोमि तावत्कालं तमत्र स्थापयितुम् आदिष्टवान्।
22 Then Agrippa sayd vnto Festus, I would also heare the man my selfe. To morowe, sayd he, thou shalt heare him.
तत आग्रिप्पः फीष्टम् उक्तवान्, अहमपि तस्य मानुषस्य कथां श्रोतुम् अभिलषामि। तदा फीष्टो व्याहरत् श्वस्तदीयां कथां त्वं श्रोष्यसि।
23 And on the morowe when Agrippa was come and Bernice with great pompe, and were entred into the Common hall with the chiefe captaines and chiefe men of the citie, at Festus commandement Paul was brought forth.
परस्मिन् दिवसे आग्रिप्पो बर्णीकी च महासमागमं कृत्वा प्रधानवाहिनीपतिभि र्नगरस्थप्रधानलोकैश्च सह मिलित्वा राजगृहमागत्य समुपस्थितौ तदा फीष्टस्याज्ञया पौल आनीतोऽभवत्।
24 And Festus sayd, King Agrippa, and all men which are present with vs, ye see this man, about whom all the multitude of the Iewes haue called vpon me, both at Hierusalem, and here, crying, that he ought not to liue any longer.
तदा फीष्टः कथितवान् हे राजन् आग्रिप्प हे उपस्थिताः सर्व्वे लोका यिरूशालम्नगरे यिहूदीयलोकसमूहो यस्मिन् मानुषे मम समीपे निवेदनं कृत्वा प्रोच्चैः कथामिमां कथितवान् पुनरल्पकालमपि तस्य जीवनं नोचितं तमेतं मानुषं पश्यत।
25 Yet haue I found nothing worthy of death, that he hath committed: neuertheles, seeing that he hath appealed to Augustus, I haue determined to send him.
किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्।
26 Of whome I haue no certaine thing to write vnto my Lord: wherefore I haue brought him forth vnto you, and specially vnto thee, King Agrippa, that after examination had, I might haue somewhat to write.
किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये।
27 For me thinketh it vnreasonable to send a prisoner, and not to shewe the causes which are layde against him.
यतो बन्दिप्रेषणसमये तस्याभियोगस्य किञ्चिदलेखनम् अहम् अयुक्तं जानामि।

< Acts 25 >