< Luke 21 >

1 Looking around, Jesus watched rich people putting their gifts into the collection box.
अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति,
2 He also saw a very poor widow put in two small coins.
एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श।
3 “I tell you the truth,” he said, “this poor widow has put in more than all the rest together.
ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्,
4 All of them gave from their wealth what they had, but she gave from her poverty all she had to live on.”
यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
5 Some of those there were talking about the Temple, its fine stonework and the beautiful gifts that had been donated. But Jesus said,
अपरञ्च उत्तमप्रस्तरैरुत्सृष्टव्यैश्च मन्दिरं सुशोभतेतरां कैश्चिदित्युक्ते स प्रत्युवाच
6 “Regarding these things you're looking at… The time is coming when not one stone will be left on another; everything will be destroyed!”
यूयं यदिदं निचयनं पश्यथ, अस्य पाषाणैकोप्यन्यपाषाणोपरि न स्थास्यति, सर्व्वे भूसाद्भविष्यन्ति कालोयमायाति।
7 “Teacher, when will this happen?” they asked him. “What will be the sign that these things are about to happen?”
तदा ते पप्रच्छुः, हे गुरो घटनेदृशी कदा भविष्यति? घटनाया एतस्यसश्चिह्नं वा किं भविष्यति?
8 “Make sure you're not deceived,” Jesus warned them. “Many people will come claiming to be me, saying, ‘Here I am!’ and, ‘The time has come!’ but don't follow them.
तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।
9 When you hear of wars and revolutions, don't be frightened, because these things have to happen first, but the end won't come immediately.
युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा शङ्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।
10 Nation will fight nation, and kingdom will fight kingdom,” he told them.
अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति,
11 “There will be severe earthquakes, famines, and epidemic diseases in many lands, and extraordinary signs in the sky that are terrifying.
नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।
12 But before all this, they will seize you and persecute you. They will drag you before synagogues and throw you into prison, and put you on trial before kings and governors on account of me.
किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।
13 But this will provide you an opportunity to speak on my behalf before them.
साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।
14 So make up your mind beforehand not to worry about how to defend yourselves,
तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत।
15 for I will give you words of wisdom that your enemies won't be able to dispute or contradict.
विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
16 You will be betrayed even by your parents, brothers, relatives, and friends, and they will kill some of you.
किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।
17 Everyone will hate you because of me.
मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।
18 But not a single hair of your head will be lost.
किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति,
19 By standing firm you will gain your lives.
तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत।
20 However, when you see Jerusalem surrounded by armies, then you know that its destruction is near.
अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।
21 Those who are in Judea should run away to the mountains, and those who are in Jerusalem should leave, and those who are the countryside shouldn't enter the city.
तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु,
22 For these are days of punishment, fulfilling all that's written.
यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति।
23 How hard it will be for those who are pregnant or nursing babies at that time! For terrible trouble is coming on the land and punishment against this people.
किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।
24 They will be killed by the sword and taken away as prisoners to all the nations. Jerusalem will be trodden down by the foreign nations until their time is fulfilled.
वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।
25 There will be signs in the sun, moon, and stars, and on the earth the nations will be in distress, confused by the sea's rolling and crashing.
सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।
26 People will be faint from fear, terrified about what is happening to the world, for the powers of heaven will be shaken.
भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति।
27 Then they'll see the Son of man coming in a cloud with power and great glory.
तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।
28 But when these things happen, stand up and look up, because you will soon be saved.”
किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।
29 Then he told them this story as an illustration. “Look at the fig tree, or any other kind of tree.
ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां
30 When you see new leaves appear, you don't need to be told that summer is near.
नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ,
31 In the same way, when you see these things happening, you don't need to be told that God's kingdom is near.
तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि ज्ञास्यथ।
32 I tell you the truth, this generation won't come to an end before all this happens.
युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते।
33 Heaven and earth will come to an end, but my word will not.
नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति।
34 Watch out that you don't become distracted by partying or getting drunk or by the worries of this life, so that this day catches you by surprise.
अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
35 For this day will come upon everyone who lives on the face of the earth.
पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति।
36 Always keep watch and pray, so that you may be able to escape all that will happen and stand before the Son of man.”
यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।
37 Every day Jesus taught in the Temple, and every evening he went and stayed on the Mount of Olives.
अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।
38 All the people came early in the morning to listen to him in the Temple.
ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्।

< Luke 21 >