< John 4 >
1 When Jesus realized that the Pharisees had discovered that he was gaining and baptizing more disciples than John,
यीशुः स्वयं नामज्जयत् केवलं तस्य शिष्या अमज्जयत् किन्तु योहनोऽधिकशिष्यान् स करोति मज्जयति च,
2 (although it wasn't Jesus who was baptizing, but his disciples),
फिरूशिन इमां वार्त्तामशृण्वन् इति प्रभुरवगत्य
3 he left Judea and returned to Galilee.
यिहूदीयदेशं विहाय पुन र्गालीलम् आगत्।
4 On the way he had to pass through Samaria.
ततः शोमिरोणप्रदेशस्य मद्येन तेन गन्तव्ये सति
5 So he came to the Samaritan city of Sychar, near to the field that Jacob had given his son Joseph.
याकूब् निजपुत्राय यूषफे यां भूमिम् अददात् तत्समीपस्थायि शोमिरोणप्रदेशस्य सुखार् नाम्ना विख्यातस्य नगरस्य सन्निधावुपास्थात्।
6 Jacob's well was there, and Jesus, who was tired from the journey, sat straight down beside the well. It was around noon.
तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्।
7 A Samaritan woman came to fetch water. Jesus said to her, “Please could you give me a drink?”
एतर्हि काचित् शोमिरोणीया योषित् तोयोत्तोलनार्थम् तत्रागमत्
8 for his disciples had gone to the town to buy food.
तदा शिष्याः खाद्यद्रव्याणि क्रेतुं नगरम् अगच्छन्।
9 “You're a Jew, and I'm a Samaritan woman. How can you ask me for a drink?” the woman replied, for Jews don't associate with Samaritans.
यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि?
10 Jesus answered her, “If you only recognized God's gift, and who is asking you, ‘Please could you give me a drink?’ you would have asked him and he would have given you the water of life.”
ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्।
11 “Sir, you don't have a bucket, and the well is deep. Where are you going to get the water of life from?” she replied.
तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि?
12 “Our father Jacob gave us the well. He drank from it himself, as well as his sons and his livestock. Are you greater than he?”
योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं?
13 Jesus answered, “Everyone who drinks water from this well will become thirsty again.
ततो यीशुरकथयद् इदं पानीयं सः पिवति स पुनस्तृषार्त्तो भविष्यति,
14 But those who drink the water I give won't ever be thirsty again. The water I give becomes a bubbling spring of water inside them, bringing them eternal life.” (aiōn , aiōnios )
किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति। (aiōn , aiōnios )
15 “Sir,” replied the woman, “Please give me this water so I won't be thirsty, and I won't have to come here to fetch water!”
तदा सा वनिताकथयत् हे महेच्छ तर्हि मम पुनः पीपासा यथा न जायते तोयोत्तोलनाय यथात्रागमनं न भवति च तदर्थं मह्यं तत्तोयं देही।
16 “Go and call your husband, and come back here,” Jesus told her.
ततो यीशूरवदद्याहि तव पतिमाहूय स्थानेऽत्रागच्छ।
17 “I don't have a husband,” the woman answered. “You're right in saying you don't have a husband,” Jesus told her.
सा वामावदत् मम पतिर्नास्ति। यीशुरवदत् मम पतिर्नास्तीति वाक्यं भद्रमवोचः।
18 “You've had five husbands, and the one you're living with now is not your husband. So what you say is true!”
यतस्तव पञ्च पतयोभवन् अधुना तु त्वया सार्द्धं यस्तिष्ठति स तव भर्त्ता न वाक्यमिदं सत्यमवादिः।
19 “I can see you're a prophet, sir,” the woman replied.
तदा सा महिला गदितवति हे महेच्छ भवान् एको भविष्यद्वादीति बुद्धं मया।
20 “Tell me this: our ancestors worshiped here on this mountain, but you say that Jerusalem is where we must worship.”
अस्माकं पितृलोका एतस्मिन् शिलोच्चयेऽभजन्त, किन्तु भवद्भिरुच्यते यिरूशालम् नगरे भजनयोग्यं स्थानमास्ते।
21 Jesus replied, “Believe me the time is coming when you won't worship the Father either on this mountain or in Jerusalem.
यीशुरवोचत् हे योषित् मम वाक्ये विश्वसिहि यदा यूयं केवलशैलेऽस्मिन् वा यिरूशालम् नगरे पितुर्भजनं न करिष्यध्वे काल एतादृश आयाति।
22 You really don't know the God you're worshiping, while we worship the God we know, for salvation comes from the Jews.
यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते।
23 But the time is coming—and in fact it's here already—when true worshipers will worship the Father in spirit and in truth, for these are the kind of worshipers the Father wants.
किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते; यत एतादृशो भत्कान् पिता चेष्टते।
24 God is Spirit, so worshipers must worship in spirit and in truth.”
ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।
25 The woman said, “Well, I know that the Messiah is coming,” (the one who is called Christ). “When he comes he will explain it all to us.”
तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति।
26 Jesus replied, “I AM—the one who is speaking to you.”
ततो यीशुरवदत् त्वया सार्द्धं कथनं करोमि योऽहम् अहमेव स पुरुषः।
27 Just then the disciples returned. They were shocked that he was talking to a woman, but none of them asked “What are you doing?” or “Why are you talking with her?”
एतस्मिन् समये शिष्या आगत्य तथा स्त्रिया सार्द्धं तस्य कथोपकथने महाश्चर्य्यम् अमन्यन्त तथापि भवान् किमिच्छति? यद्वा किमर्थम् एतया सार्द्धं कथां कथयति? इति कोपि नापृच्छत्।
28 The woman left her water jar behind and ran back to the town, telling the people,
ततः परं सा नारी कलशं स्थापयित्वा नगरमध्यं गत्वा लोकेभ्योकथायद्
29 “Come and meet a man who told me everything I ever did! Could this be the Messiah?”
अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति?
30 So they went out of the town to go and see him.
ततस्ते नगराद् बहिरागत्य तातस्य समीपम् आयन्।
31 Meanwhile Jesus' disciples were urging him, “Rabbi, please eat something!”
एतर्हि शिष्याः साधयित्वा तं व्याहार्षुः हे गुरो भवान् किञ्चिद् भूक्तां।
32 But Jesus replied, “I have food to eat that you know nothing about.”
ततः सोवदद् युष्माभिर्यन्न ज्ञायते तादृशं भक्ष्यं ममास्ते।
33 “Did someone bring him food?” the disciples asked one another.
तदा शिष्याः परस्परं प्रष्टुम् आरम्भन्त, किमस्मै कोपि किमपि भक्ष्यमानीय दत्तवान्?
34 Jesus told them, “My food is to do the will of the one who sent me, and to complete his work.
यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।
35 Don't you have a saying, ‘four more months until harvest?’ Open your eyes and look around! The crops in the fields are ripe, ready for harvest.
मासचतुष्टये जाते शस्यकर्त्तनसमयो भविष्यतीति वाक्यं युष्माभिः किं नोद्यते? किन्त्वहं वदामि, शिर उत्तोल्य क्षेत्राणि प्रति निरीक्ष्य पश्यत, इदानीं कर्त्तनयोग्यानि शुक्लवर्णान्यभवन्।
36 The reaper is being paid and harvesting a crop for eternal life so that both the sower and the reaper can celebrate. (aiōnios )
यश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः। (aiōnios )
37 So the proverb ‘one sows, another reaps,’ is true.
इत्थं सति वपत्येकश्छिनत्यन्य इति वचनं सिद्ध्यति।
38 I sent you to reap what you didn't work for. Others did the hard work and you have reaped the benefits of what they did.”
यत्र यूयं न पर्य्यश्राम्यत तादृशं शस्यं छेत्तुं युष्मान् प्रैरयम् अन्ये जनाःपर्य्यश्राम्यन् यूयं तेषां श्रगस्य फलम् अलभध्वम्।
39 Many Samaritans from that town trusted in him because of what the woman said: “He told me everything I ever did.”
यस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्।
40 So when they came to see him they pleaded with him to stay with them. He stayed for two days,
तथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्
41 and because of what he told them many more trusted in him.
ततस्तस्योपदेशेन बहवोऽपरे विश्वस्य
42 They said to the woman, “Now our trust in him isn't just because of what you told us but because we have heard him for ourselves. We're convinced that he really is the Savior of the world.”
तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।
43 After the two days he continued on to Galilee.
स्वदेशे भविष्यद्वक्तुः सत्कारो नास्तीति यद्यपि यीशुः प्रमाणं दत्वाकथयत्
44 Jesus himself had made the comment that a prophet is not respected in his own country.
तथापि दिवसद्वयात् परं स तस्मात् स्थानाद् गालीलं गतवान्।
45 But when he arrived in Galilee, the people welcomed him, because they had also been at the Passover feast and had seen everything he'd done in Jerusalem.
अनन्तरं ये गालीली लियलोका उत्सवे गता उत्सवसमये यिरूशलम् नगरे तस्य सर्व्वाः क्रिया अपश्यन् ते गालीलम् आगतं तम् आगृह्लन्।
46 He visited Cana in Galilee again, where he had turned water into wine. Nearby in the town of Capernaum lived a royal official whose son was very sick.
ततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्।
47 When he heard that Jesus had returned from Judea to Galilee, he went to Jesus and begged him to come and heal his son who was close to death.
स येहूदीयदेशाद् यीशो र्गालीलागमनवार्त्तां निशम्य तस्य समीपं गत्वा प्रार्थ्य व्याहृतवान् मम पुत्रस्य प्रायेण काल आसन्नः भवान् आगत्य तं स्वस्थं करोतु।
48 “Unless you see signs and wonders you people really won't trust me,” said Jesus.
तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।
49 “Lord, just come before my child dies,” the official pleaded.
ततः स सभासदवदत् हे महेच्छ मम पुत्रे न मृते भवानागच्छतु।
50 “Go on home,” Jesus told him. “Your son will live!” The man trusted what Jesus told him and left for home.
यीशुस्तमवदद् गच्छ तव पुत्रोऽजीवीत् तदा यीशुनोक्तवाक्ये स विश्वस्य गतवान्।
51 While he was on his way, his servants met him with the news that his son was alive and recovering.
गमनकाले मार्गमध्ये दासास्तं साक्षात्प्राप्यावदन् भवतः पुत्रोऽजीवीत्।
52 He asked them what time it was when his son began to get better. “Yesterday at one p.m. the fever left him,” they told him.
ततः कं कालमारभ्य रोगप्रतीकारारम्भो जाता इति पृष्टे तैरुक्तं ह्यः सार्द्धदण्डद्वयाधिकद्वितीययामे तस्य ज्वरत्यागोऽभवत्।
53 Then the father realized this was the precise time when Jesus had told him, “Your son will live!” So he and everyone in his household trusted in Jesus.
तदा यीशुस्तस्मिन् क्षणे प्रोक्तवान् तव पुत्रोऽजीवीत् पिता तद्बुद्ध्वा सपरिवारो व्यश्वसीत्।
54 This was the second miraculous sign Jesus did after coming from Judea to Galilee.
यिहूदीयदेशाद् आगत्य गालीलि यीशुरेतद् द्वितीयम् आश्चर्य्यकर्म्माकरोत्।