< 1 Corinthians 12 >

1 Now concerning spiritual things, my brethren, I would not have you ignorant.
हे भ्रातरः, यूयं यद् आत्मिकान् दायान् अनवगतास्तिष्ठथ तदहं नाभिलषामि।
2 You know that when you were heathens, you went to dumb idols, according as you were led.
पूर्व्वं भिन्नजातीया यूयं यद्वद् विनीतास्तद्वद् अवाक्प्रतिमानाम् अनुगामिन आध्बम् इति जानीथ।
3 Wherefore I give you to understand, that no man, speaking by the Spirit of God, saith Anathema to Jesus. And no man can say the Lord Jesus, but by the Holy Ghost.
इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति।
4 Now there are diversities of graces, but the same Spirit;
दाया बहुविधाः किन्त्वेक आत्मा
5 And there are diversities of ministries, but the same Lord;
परिचर्य्याश्च बहुविधाः किन्त्वेकः प्रभुः।
6 And there are diversities of operations, but the same God, who worketh all in all.
साधनानि बहुविधानि किन्तु सर्व्वेषु सर्व्वसाधक ईश्वर एकः।
7 And the manifestation of the Spirit is given to every man unto profit.
एकैकस्मै तस्यात्मनो दर्शनं परहितार्थं दीयते।
8 To one indeed, by the Spirit, is given the word of wisdom: and to another, the word of knowledge, according to the same Spirit;
एकस्मै तेनात्मना ज्ञानवाक्यं दीयते, अन्यस्मै तेनैवात्मनादिष्टं विद्यावाक्यम्,
9 To another, faith in the same spirit; to another, the grace of healing in one Spirit;
अन्यस्मै तेनैवात्मना विश्वासः, अन्यस्मै तेनैवात्मना स्वास्थ्यदानशक्तिः,
10 To another, the working of miracles; to another, prophecy; to another, the discerning of spirits; to another, diverse kinds of tongues; to another, interpretation of speeches.
अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।
11 But all these things one and the same Spirit worketh, dividing to every one according as he will.
एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।
12 For as the body is one, and hath many members; and all the members of the body, whereas they are many, yet are one body, so also is Christ.
देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः।
13 For in one Spirit were we all baptized into one body, whether Jews or Gentiles, whether bond or free; and in one Spirit we have all been made to drink.
यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।
14 For the body also is not one member, but many.
एकेनाङ्गेन वपु र्न भवति किन्तु बहुभिः।
15 If the foot should say, because I am not the hand, I am not of the body; is it therefore not of the body?
तत्र चरणं यदि वदेत् नाहं हस्तस्तस्मात् शरीरस्य भागो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति।
16 And if the ear should say, because I am not the eye, I am not of the body; is it therefore not of the body?
श्रोत्रं वा यदि वदेत् नाहं नयनं तस्मात् शरीरस्यांशो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति।
17 If the whole body were the eye, where would be the hearing? If the whole were hearing, where would be the smelling?
कृत्स्नं शरीरं यदि दर्शनेन्द्रियं भवेत् तर्हि श्रवणेन्द्रियं कुत्र स्थास्यति? तत् कृत्स्नं यदि वा श्रवणेन्द्रियं भवेत् तर्हि घ्रणेन्द्रियं कुत्र स्थास्यति?
18 But now God hath set the members every one of them in the body as it hath pleased him.
किन्त्विदानीम् ईश्वरेण यथाभिलषितं तथैवाङ्गप्रत्यङ्गानाम् एकैकं शरीरे स्थापितं।
19 And if they all were one member, where would be the body?
तत् कृत्स्नं यद्येकाङ्गरूपि भवेत् तर्हि शरीरे कुत्र स्थास्यति?
20 But now there are many members indeed, yet one body.
तस्माद् अङ्गानि बहूनि सन्ति शरीरं त्वेकमेव।
21 And the eye cannot say to the hand: I need not thy help; nor again the head to the feet: I have no need of you.
अतएव त्वया मम प्रयोजनं नास्तीति वाचं पाणिं वदितुं नयनं न शक्नोति, तथा युवाभ्यां मम प्रयोजनं नास्तीति मूर्द्धा चरणौ वदितुं न शक्नोतिः;
22 Yea, much more those that seem to be the more feeble members of the body, are more necessary.
वस्तुतस्तु विग्रहस्य यान्यङ्गान्यस्माभि र्दुर्ब्बलानि बुध्यन्ते तान्येव सप्रयोजनानि सन्ति।
23 And such as we think to be the less honourable members of the body, about these we put more abundant honour; and those that are our uncomely parts, have more abundant comeliness.
यानि च शरीरमध्येऽवमन्यानि बुध्यते तान्यस्माभिरधिकं शोभ्यन्ते। यानि च कुदृश्यानि तानि सुदृश्यतराणि क्रियन्ते
24 But our comely parts have no need: but God hath tempered the body together, giving to that which wanted the more abundant honour,
किन्तु यानि स्वयं सुदृश्यानि तेषां शोभनम् निष्प्रयोजनं।
25 That there might be no schism in the body; but the members might be mutually careful one for another.
शरीरमध्ये यद् भेदो न भवेत् किन्तु सर्व्वाण्यङ्गानि यद् ऐक्यभावेन सर्व्वेषां हितं चिन्तयन्ति तदर्थम् ईश्वरेणाप्रधानम् आदरणीयं कृत्वा शरीरं विरचितं।
26 And if one member suffer any thing, all the members suffer with it; or if one member glory, all the members rejoice with it.
तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।
27 Now you are the body of Christ, and members of member.
यूयञ्च ख्रीष्टस्य शरीरं, युष्माकम् एकैकश्च तस्यैकैकम् अङ्गं।
28 And God indeed hath set some in the church; first apostles, secondly prophets, thirdly doctors; after that miracles; then the graces of healing, helps, governments, kinds of tongues, interpretations of speeches.
केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।
29 Are all apostles? Are all prophets? Are all doctors?
सर्व्वे किं प्रेरिताः? सर्व्वे किम् ईश्वरीयादेशवक्तारः? सर्व्वे किम् उपदेष्टारः? सर्व्वे किं चित्रकार्य्यसाधकाः?
30 Are all workers of miracles? Have all the grace of healing? Do all speak with tongues? Do all interpret?
सर्व्वे किम् अनामयकरणशक्तियुक्ताः? सर्व्वे किं परभाषावादिनः? सर्व्वे वा किं परभाषार्थप्रकाशकाः?
31 But be zealous for the better gifts. And I shew unto you yet a more excellent way.
यूयं श्रेष्ठदायान् लब्धुं यतध्वं। अनेन यूयं मया सर्व्वोत्तममार्गं दर्शयितव्याः।

< 1 Corinthians 12 >