< 1 Tesalonickým 5 >

1 O časích pak a chvílech, bratří, nepotřebujete, aby vám psáno bylo.
हे भ्रातरः, कालान् समयांश्चाधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं,
2 Nebo vy sami výborně víte, že ten den Páně jako zloděj v noci, tak přijde.
यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ।
3 Neb když dějí: Pokoj a bezpečnost, tedy rychle přijde na ně zahynutí, jako bolest ženě těhotné, a neujdouť toho.
शान्ति र्निर्व्विन्घत्वञ्च विद्यत इति यदा मानवा वदिष्यन्ति तदा प्रसववेदना यद्वद् गर्ब्भिनीम् उपतिष्ठति तद्वद् अकस्माद् विनाशस्तान् उपस्थास्यति तैरुद्धारो न लप्स्यते।
4 Ale vy, bratří, nejste ve tmě, aby vás ten den jako zloděj zachvátil.
किन्तु हे भ्रातरः, यूयम् अन्धकारेणावृता न भवथ तस्मात् तद्दिनं तस्कर इव युष्मान् न प्राप्स्यति।
5 Všickni vy synové světla jste a synové dne; nejsmeť synové noci, ani tmy.
सर्व्वे यूयं दीप्तेः सन्ताना दिवायाश्च सन्ताना भवथ वयं निशावंशास्तिमिरवंशा वा न भवामः।
6 Nespěmež tedy, jako i jiní, ale bděme a střízliví buďme.
अतो ऽपरे यथा निद्रागताः सन्ति तद्वद् अस्माभि र्न भवितव्यं किन्तु जागरितव्यं सचेतनैश्च भवितव्यं।
7 Nebo kteříž spí, v noci spí, a kteříž se opíjejí, v noci opilí jsou.
ये निद्रान्ति ते निशायामेव निद्रान्ति ते च मत्ता भवन्ति ते रजन्यामेव मत्ता भवन्ति।
8 Ale my, synové dne jsouce, střízliví buďme, oblečeni jsouce v pancíř víry a lásky, a v lebku, jenž jest naděje spasení.
किन्तु वयं दिवसस्य वंशा भवामः; अतो ऽस्माभि र्वक्षसि प्रत्ययप्रेमरूपं कवचं शिरसि च परित्राणाशारूपं शिरस्त्रं परिधाय सचेतनै र्भवितव्यं।
9 Nebo nepostavil nás Bůh k hněvu, ale k nabytí spasení, skrze Pána našeho Jezukrista,
यत ईश्वरोऽस्मान् क्रोधे न नियुज्यास्माकं प्रभुना यीशुख्रीष्टेन परित्राणस्याधिकारे नियुुक्तवान्,
10 Kterýž umřel za nás, abychom, buďto že bdíme, buďto že spíme, spolu s ním živi byli.
जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्।
11 Protož napomínejte se vespolek, a vzdělávejte jeden druhého, jakož i činíte.
अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।
12 A prosímeť vás, bratří, znejtež ty, kteříž pracují mezi vámi, a předloženi jsou vám v Pánu, a napomínají vás,
हे भ्रातरः, युष्माकं मध्ये ये जनाः परिश्रमं कुर्व्वन्ति प्रभो र्नाम्ना युष्मान् अधितिष्ठन्त्युपदिशन्ति च तान् यूयं सम्मन्यध्वं।
13 A velice je milujte pro práci jejich. A mějte se k sobě vespolek pokojně.
स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयध्वमिति मम प्रार्थना, यूयं परस्परं निर्व्विरोधा भवत।
14 A prosímeť vás, bratří, napomínejte z řádu vystupujících, potěšujte choulostivých, snášejte mdlé, trpělivě se mějte ke všechněm.
हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च।
15 Vizte, aby někdo zlého za zlé neodplacoval, ale vždycky účinnosti dokazujte, i k sobě vespolek i ke všechněm.
अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।
16 Vždycky se radujte,
सर्व्वदानन्दत।
17 Bez přestání se modlte,
निरन्तरं प्रार्थनां कुरुध्वं।
18 Ze všeho díky čiňte; nebo ta jest vůle Boží v Kristu Ježíši, aby se tak dálo od vás.
सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।
19 Ducha neuhašujte,
पवित्रम् आत्मानं न निर्व्वापयत।
20 Proroctvím nepohrdejte,
ईश्वरीयादेशं नावजानीत।
21 Všeho zkuste; což dobrého jest, toho se držte.
सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत।
22 Od všeliké zlé tvárnosti se varujte.
यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत।
23 On pak Bůh pokoje posvětiž vás ve všem, a celý váš duch i duše i tělo bez úhony ku příští Pána našeho Jezukrista zachováno budiž.
शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।
24 Věrnýť jest ten, jenž povolal vás, kterýž také i učiní to.
यो युष्मान् आह्वयति स विश्वसनीयोऽतः स तत् साधयिष्यति।
25 Bratří, modlte se za nás.
हे भ्रातरः, अस्माकं कृते प्रार्थनां कुरुध्वं।
26 Pozdravte všech bratří v políbením svatém.
पवित्रचुम्बनेन सर्व्वान् भ्रातृन् प्रति सत्कुरुध्वं।
27 Zavazujiť vás skrze Pána, aby čten byl list tento všechněm bratřím svatým.
पत्रमिदं सर्व्वेषां पवित्राणां भ्रातृणां श्रुतिगोचरे युष्माभिः पठ्यतामिति प्रभो र्नाम्ना युष्मान् शपयामि।
28 Milost Pána našeho Jezukrista budiž s vámi. Amen. List první k Tessalonicenským psán jest v Aténách.
अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रते युष्मासु भूयात्। आमेन्।

< 1 Tesalonickým 5 >