< रोमिणः 16 >

1 किंक्रीयानगरीयधर्म्मसमाजस्य परिचारिका या फैबीनामिकास्माकं धर्म्मभगिनी तस्याः कृतेऽहं युष्मान् निवेदयामि,
And Y comende to you Feben, oure sister, which is in the seruyce of the chirche that is at Teucris,
2 यूयं तां प्रभुमाश्रितां विज्ञाय तस्या आतिथ्यं पवित्रलोकार्हं कुरुध्वं, युष्मत्तस्तस्या य उपकारो भवितुं शक्नोति तं कुरुध्वं, यस्मात् तया बहूनां मम चोपकारः कृतः।
that ye resseyue hir in the Lord worthili to seyntis, and `that ye helpe hir in what euere cause sche schal nede of you. For sche helpide many men, and my silf.
3 अपरञ्च ख्रीष्टस्य यीशोः कर्म्मणि मम सहकारिणौ मम प्राणरक्षार्थञ्च स्वप्राणान् पणीकृतवन्तौ यौ प्रिष्किल्लाक्किलौ तौ मम नमस्कारं ज्ञापयध्वं।
Grete ye Prisca and Aquyla, myn helperis in Crist Jhesu,
4 ताभ्याम् उपकाराप्तिः केवलं मया स्वीकर्त्तव्येति नहि भिन्नदेशीयैः सर्व्वधर्म्मसमाजैरपि।
which vndurputtiden her neckis for my lijf; to whiche not Y aloone do thankyngis, but also alle the chirchis of hethene men.
5 अपरञ्च तयो र्गृहे स्थितान् धर्म्मसमाजलोकान् मम नमस्कारं ज्ञापयध्वं। तद्वत् आशियादेशे ख्रीष्टस्य पक्षे प्रथमजातफलस्वरूपो य इपेनितनामा मम प्रियबन्धुस्तमपि मम नमस्कारं ज्ञापयध्वं।
And grete ye wel her meyneal chirche. Grete wel Efenete, louyd to me, that is the firste of Asie in Crist Jhesu.
6 अपरं बहुश्रमेणास्मान् असेवत या मरियम् तामपि नमस्कारं ज्ञापयध्वं।
Grete wel Marie, the whiche hath trauelid myche in vs.
7 अपरञ्च प्रेरितेषु ख्यातकीर्त्ती मदग्रे ख्रीष्टाश्रितौ मम स्वजातीयौ सहबन्दिनौ च यावान्द्रनीकयूनियौ तौ मम नमस्कारं ज्ञापयध्वं।
Grete wel Andronyk and Julian, my cosyns, and myn euen prisouneris, which ben noble among the apostlis, and whiche weren bifor me in Crist.
8 तथा प्रभौ मत्प्रियतमम् आम्प्लियमपि मम नमस्कारं ज्ञापयध्वं।
Grete wel Ampliate, most dereworth to me in the Lord.
9 अपरं ख्रीष्टसेवायां मम सहकारिणम् ऊर्ब्बाणं मम प्रियतमं स्ताखुञ्च मम नमस्कारं ज्ञापयध्वं।
Grete wel Vrban, oure helpere in Crist Jhesus, and Stacchen, my derlyng.
10 अपरं ख्रीष्टेन परीक्षितम् आपिल्लिं मम नमस्कारं वदत, आरिष्टबूलस्य परिजनांश्च मम नमस्कारं ज्ञापयध्वं।
Grete wel Appellem, the noble in Crist.
11 अपरं मम ज्ञातिं हेरोदियोनं मम नमस्कारं वदत, तथा नार्किसस्य परिवाराणां मध्ये ये प्रभुमाश्रितास्तान् मम नमस्कारं वदत।
Grete wel hem that ben of Aristoblis hous. Grete wel Erodion, my cosyn. Grete wel hem that ben of Narciscies hous, that ben in the Lord.
12 अपरं प्रभोः सेवायां परिश्रमकारिण्यौ त्रुफेनात्रुफोषे मम नमस्कारं वदत, तथा प्रभोः सेवायाम् अत्यन्तं परिश्रमकारिणी या प्रिया पर्षिस्तां नमस्कारं ज्ञापयध्वं।
Grete wel Trifenam and Trifosam, whiche wymmen trauelen in the Lord. Grete wel Persida, most dereworthe womman, that hath trauelid myche in the Lord.
13 अपरं प्रभोरभिरुचितं रूफं मम धर्म्ममाता या तस्य माता तामपि नमस्कारं वदत।
Grete wel Rufus, chosun in the Lord, and his modir, and myn.
14 अपरम् असुंकृतं फ्लिगोनं हर्म्मं पात्रबं हर्म्मिम् एतेषां सङ्गिभ्रातृगणञ्च नमस्कारं ज्ञापयध्वं।
Grete wel Ansicrete, Flegoncia, Hermen, Patroban, Herman, and britheren that ben with hem.
15 अपरं फिललगो यूलिया नीरियस्तस्य भगिन्यलुम्पा चैतान् एतैः सार्द्धं यावन्तः पवित्रलोका आसते तानपि नमस्कारं ज्ञापयध्वं।
Grete wel Filologus, and Julian, and Nereum, and his sistir, and Olympiades, and alle the seyntis that ben with hem.
16 यूयं परस्परं पवित्रचुम्बनेन नमस्कुरुध्वं। ख्रीष्टस्य धर्म्मसमाजगणो युष्मान् नमस्कुरुते।
Grete ye wel togidere in hooli coss. Alle the chirches of Crist greten you wel.
17 हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।
But, britheren, Y preye you, that ye aspie hem that maken discenciouns and hirtyngis, bisidis the doctryne that ye han lerned, and bowe ye awei fro hem.
18 यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।
For suche men seruen not to the Lord Crist, but to her wombe, and bi swete wordis and blessyngis disseyuen the hertis of innocent men.
19 युष्माकम् आज्ञाग्राहित्वं सर्व्वत्र सर्व्वै र्ज्ञातं ततोऽहं युष्मासु सानन्दोऽभवं तथापि यूयं यत् सत्ज्ञानेन ज्ञानिनः कुज्ञानेे चातत्परा भवेतेति ममाभिलाषः।
But youre obedience is pupplischid in to euery place, therfor Y haue ioye in you. But Y wole that ye be wise in good thing, and symple in yuel.
20 अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।
And God of pees tredde Sathanas vndur youre feet swiftli. The grace of oure Lord Jhesu Crist be with you.
21 मम सहकारी तीमथियो मम ज्ञातयो लूकियो यासोन् सोसिपात्रश्चेमे युष्मान् नमस्कुर्व्वन्ते।
Tymothe, myn helpere, gretith you wel, and also Lucius, and Jason, and Sosipater, my cosyns.
22 अपरम् एतत्पत्रलेखकस्तर्त्तियनामाहमपि प्रभो र्नाम्ना युष्मान् नमस्करोमि।
Y Tercius grete you wel, that wroot this epistle, in the Lord.
23 तथा कृत्स्नधर्म्मसमाजस्य मम चातिथ्यकारी गायो युष्मान् नमस्करोति। अपरम् एतन्नगरस्य धनरक्षक इरास्तः क्कार्त्तनामकश्चैको भ्राता तावपि युष्मान् नमस्कुरुतः।
Gayus, myn oost, gretith you wel, and al the chirche. Erastus, tresorere of the city, gretith you wel, and Quartus brother.
24 अस्माकं प्रभु र्यीशुख्रीष्टा युष्मासु सर्व्वेषु प्रसादं क्रियात्। इति।
The grace of oure Lord Jhesu Crist be with you alle. Amen.
25 पूर्व्वकालिकयुगेषु प्रच्छन्ना या मन्त्रणाधुना प्रकाशिता भूत्वा भविष्यद्वादिलिखितग्रन्थगणस्य प्रमाणाद् विश्वासेन ग्रहणार्थं सदातनस्येश्वरस्याज्ञया सर्व्वदेशीयलोकान् ज्ञाप्यते, (aiōnios g166)
And onour and glorie be to hym, that is myyti to conferme you bi my gospel, and prechyng of Jhesu Crist, bi the reuelacioun of mysterie holdun stylle in tymes euerlastinge; (aiōnios g166)
26 तस्या मन्त्रणाया ज्ञानं लब्ध्वा मया यः सुसंवादो यीशुख्रीष्टमधि प्रचार्य्यते, तदनुसाराद् युष्मान् धर्म्मे सुस्थिरान् कर्त्तुं समर्थो योऽद्वितीयः (aiōnios g166)
which mysterie is now maad opyn bi scripturis of prophetis, bi the comaundement of God with outen bigynnyng and endyng, to the obedience of feith in alle hethene men, the mysterie (aiōnios g166)
27 सर्व्वज्ञ ईश्वरस्तस्य धन्यवादो यीशुख्रीष्टेन सन्ततं भूयात्। इति। (aiōn g165)
knowun bi Jhesu Crist to God aloone wiss, to whom be onour and glorie in to worldis of worldis. Amen. (aiōn g165)

< रोमिणः 16 >